Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 106

117 Mantra
12/106
Devata- अग्निर्देवता Rishi- पावकाग्निर्ऋषिः Chhand- निचृत पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्तेऽअ॒र्चयो॑ विभावसो। बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे॥१०६॥

अग्ने॑। तव॑। श्रवः॑। वयः॑। महि॑। भ्रा॒ज॒न्ते॒। अ॒र्चयः॑। वि॒भा॒व॒सो॒ इति॑ विभाऽवसो। बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो। शव॑सा। वाज॑म्। उ॒क्थ्य᳕म्। दधा॑सि। दा॒शुषे॑। क॒वे॒ ॥१०६ ॥

Mantra without Swara
अग्ने तव श्रवो वयो महि भ्राजन्तेऽअर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यन्दधासि दाशुषे कवे ॥

अग्ने। तव। श्रवः। वयः। महि। भ्राजन्ते। अर्चयः। विभावसो इति विभाऽवसो। बृहद्भानो इति बृहत्ऽभानो। शवसा। वाजम्। उक्थ्यम्। दधासि। दाशुषे। कवे॥१०६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) पावक इव वर्त्तमान विद्वन् (तव) (श्रवः) श्रवणम् (वयः) जीवनम् (महि) पूज्यं महत् (भ्राजन्ते) (अर्चयः) दीप्तयः (विभावसो) यो विविधायां भायां वसति तत्सम्बुद्धौ (बृहद्भानो) अग्निवद्बृहन्तो=महान्तो भानवो=विद्याप्रकाशा यस्य तत्सम्बुद्धौ (शवसा) बलेन (वाजम्) विज्ञानम् (उक्थ्यम्) वक्तुं योग्यम् (दधासि) (दाशुषे) दातुं योग्याय विद्यार्थिने (कवे) विक्रान्तप्रज्ञ ।। १०६।।
Essence
ये मनुष्या अग्निवद्गुणिन आप्तवत् सत्कीर्तयः प्रकाशन्ते,

[दाशुषे.....वाजं दधासि]
ते परोपकारायान्येभ्यो विद्याविनयधर्मान् सततमुपदिशेयुः ।। १२। १०६।।
Subject
मनुष्यैः कथं भवितव्यमित्याह॥
Meaning of Anvay
हे बृहद्भानो विभावसो कवेऽग्ने विद्वन्! यतस्त्वं शवसा दाशुष उक्थ्यं वाजं दधासि तस्मात्तवाग्नेरिव महि श्रवो वयोऽर्चयश्च भ्राजन्ते ।। १०६।।

सपदार्थान्वयः-- हे बृहद्भानो! अग्निवद्बृहन्तो=महान्तो भानवो=विद्याप्रकाशा यस्य तत्सम्बुद्धौ! विभावसो यो विविधायां भायां वसति तत्सम्बुद्धौ! कवे! विक्रान्तप्रज्ञ! अग्ने!=विद्वन् पावक इव वर्त्तमान विद्वन्! यतस्त्वं शवसा बलेन दाशुषे दातुं योग्याय विद्यार्थिने उक्थ्यं वक्तुं योग्यं वाजं विज्ञानं दधासि, तस्मात् तवाग्नेरिव महि पूज्यं महत् श्रवः श्रवणं वयः जीवनम् अर्चयः दीप्तयः च भ्राजन्ते।। १२ । १०६ ।।

[हे बृहद्भानो!....तवाग्नेरिव.....अर्चयः भ्राजन्ते]
Meaning of Essence
बृहद्भानो! =अग्निवद्गुणिन्!। अर्चयः=सत्कीर्तयः। भ्राजन्ते=प्रकाशन्ते। दाशुषे= परोपकाराय। वाजम्=विद्याविनयधर्मम्। दधासि=उपदिशसि।।
Special
पावकाग्निः। अग्निः=विद्वान्। निचृत्पङ्क्तिः। पञ्चमः॥