Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 104

117 Mantra
12/104
Devata- अग्निर्देवता Rishi- हिरण्यगर्भ ऋषिः Chhand- भुरिग् गायत्री Swara- षड्जः
Mantra with Swara
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म्। तद्दे॒वेभ्यो॑ भरामसि॥१०४॥

अग्ने॑। यत्। ते॒। शु॒क्रम्। यत्। च॒न्द्रम्। यत्। पू॒तम्। यत्। च॒। य॒ज्ञिय॑म्। तत्। दे॒वेभ्यः॑। भ॒रा॒म॒सि॒ ॥१०४ ॥

Mantra without Swara
अग्ने यत्ते शुक्रँयच्चन्द्रँयत्पूतँयच्च यज्ञियम् । तद्देवेभ्यो भरामसि ॥

अग्ने। यत्। ते। शुक्रम्। यत्। चन्द्रम्। यत्। पूतम्। यत्। च। यज्ञियम्। तत्। देवेभ्यः। भरामसि॥१०४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्ने) विद्वन् (यत्) (ते) तुभ्यम् (शुक्रम्) आशुकरम् (यत्) (चन्द्रम्) हिरण्यवदानन्दप्रदम् (यत्) (पूतम्) पवित्रम् (यत्) (च) (यज्ञियम्) यज्ञानुष्ठानार्हं स्वरूपम् (तत्) (देवेभ्यः) गुणेभ्यः (भरामसि) भरेम ।। १०४ ।।
Essence
मनुष्यैर्दिव्यगुणकर्मसिद्धये विद्युदादेरग्नेर्विद्या संप्रेक्षणीया ।। १२। १०४।।
Subject
किमर्थाऽग्निविद्यान्वेषणीया इत्याह॥
Meaning of Anvay
हे अग्ने विद्वन् ! यत्पावकस्य शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियं स्वरूपमस्ति तत्ते देवेभ्यश्च वयं भरामसि ।। १०४।।

सपदार्थान्वयः-- हे अग्ने=विद्वन्! यत् पावकस्य शुक्रम् आशुकरं यच्चन्द्रं हिरण्यवदानन्दप्रदं यत् पूतं पवित्रं यच्च यज्ञियं यज्ञाऽनुष्ठानाऽर्हं स्वरूपमस्ति, तत् ते तुभ्यं देवेभ्यः गुणेभ्यः च वयं भरामसि भरेम।। १२। १०४।।

[हे अग्ने!=विद्वन्! यत् पावकस्य शुक्रं, चन्द्रं, पूतं, यज्ञियं स्वरूपमस्ति तत्ते देवेभ्यश्च भरामसि]
Meaning of Essence
देवेभ्यः=दिव्यगुणकर्मसिद्धये।
Special
हिरण्यगर्भः। अग्निः=अग्निविद्या। भुरिग्गायत्री । षड्जः।।