Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 102

117 Mantra
12/102
Devata- को देवता Rishi- हिरण्यगर्भ ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
मा मा॑ हिꣳसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ꣳ स॒त्यध॑र्मा॒ व्यान॑ट्। यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥१०२॥

मा। मा॒। हि॒ꣳसी॒त्। ज॒नि॒ता। यः। पृ॒थि॒व्याः। यः। वा॒। दिव॑म्। स॒त्यध॒र्मेति॑ स॒त्यऽध॑र्मा। वि। आन॑ट्। यः। च॒। अ॒पः। च॒न्द्राः। प्र॒थ॒मः। ज॒जान॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥१०२ ॥

Mantra without Swara
मा मा हिँसीज्जनिता यः पृथिव्या यो वा दिवँ सत्यधर्मा व्यानट् । यश्चापश्चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥

मा। मा। हिꣳसीत्। जनिता। यः। पृथिव्याः। यः। वा। दिवम्। सत्यधर्मेति सत्यऽधर्मा। वि। आनट्। यः। च। अपः। चन्द्राः। प्रथमः। जजान। कस्मै। देवाय। हविषा। विधेम॥१०२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधे (मा) माम् (हिंसीत्) रोगैर्हिंस्यात् (जनिता) उत्पादकः (यः) जगदीश्वरः (पृथिव्याः) भूमेः (यः) (वा) (दिवम्) सूर्यादिकं जगत् (सत्यधर्मा) सत्यो धर्मो यस्य सः (वि) (आनट्) व्याप्तोऽस्ति (यः) (च) अग्निं सूर्यम् (अपः) जलानि वायून् (चन्द्राः) चन्द्रादिलोकान्। अत्र शसः स्थाने जस् (प्रथमः) जन्मादेः पृथगादिमः (जजान) जनयति (कस्मै) सुखस्वरूपाय सुखकारकाय। क इति पदना० ॥ निघं० ५ । ४ ।। वा छन्दसि सर्वे विधय इति सर्वनामकार्य्यम् (देवाय) दिव्यसुखप्रदाय विज्ञानस्वरूपाय (हविषा) उपादेयेन भक्तियोगेन (विधेम) परिचरेम।। १०२।।
Essence
मनुष्यैः सत्यधर्मप्राप्तये, ओषध्यादिविज्ञानाय च परमेश्वरः प्रार्थनीयः॥
Subject
अथ किमर्थम् ईश्वरः प्रार्थनीय इत्याह॥
Meaning of Anvay
यः सत्यधर्मा जगदीश्वरः पृथिव्या जनिता यो वा दिवमपश्च व्यानट्। चन्द्राश्च जजान यस्मै कस्मै देवाय हविषा वयं विधेम स जगदीश्वरो मा मा हिंसीत्।। १०२।।

सपदार्थान्वयः -- यः जगदीश्वरः सत्यधर्मा=जगदीश्वरः सत्यो धर्मो यस्य सः, पृथिव्याः भूमेः जनिता उत्पादकः, यः जगदीश्वरः वा दिवं सूर्य्यादिकं जगद् अपः जलानि वायून् च अग्निं सूर्य्यं व्यानट् व्याप्तोऽस्ति। [प्रथमः] जन्मादेः पृथगादिमः चन्द्राः चन्द्रादिलोकान् च जजान जनयति यस्मै कस्मै सुखस्वरूपाय सुखकारकाय देवाय दिव्यसुखप्रदाय विज्ञानस्वरूपाय हविषा उपादेयेन भक्तियोगेन वयं विधेम परिचरेम, स जगदीश्वरो मा मां मा न हिंसीत् रोगै: हिंस्यात् ।। १२। १०२।।

[यः सत्यधर्मा जगदीश्वरः पृथिव्या जनिता.....स......मा मा हिंसीत्]
Special
हिरण्यगर्भः। कः= ईश्वरः। निचृदार्षी त्रिष्टुप्। धैवतः।।