Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 12 / Mantra 101

117 Mantra
12/101
Devata- भिषजो देवताः Rishi- वरुण ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षाऽउप॑स्तयः। उप॑स्तिरस्तु॒ सोऽस्माकं॒ योऽअ॒स्माँ२ऽ अ॑भि॒दास॑ति॥१०१

त्वम्। उ॒त्त॒मेत्यु॑त्त॒मा। अ॒सि॒। ओ॒ष॒धे॒। तव॑। वृ॒क्षाः। उप॑स्तयः। उप॑स्तिः। अ॒स्तु॒। सः। अ॒स्माक॑म्। यः। अ॒स्मान्। अ॒भि॒दास॒तीत्य॑भि॒ऽदास॑ति ॥१०१ ॥

Mantra without Swara
त्वमुत्तमास्योषधे तव वृक्षाऽउपस्तयः । उपस्तिरस्तु सो स्माकँयोऽअस्माँ अभिदासति ॥

त्वम्। उत्तमेत्युत्तमा। असि। ओषधे। तव। वृक्षाः। उपस्तयः। उपस्तिः। अस्तु। सः। अस्माकम्। यः। अस्मान्। अभिदासतीत्यभिऽदासति॥१०१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(त्वम्) (उत्तमा) (असि) अस्ति। अत्र व्यत्ययः (ओषधे) ओषधिः (तव) यस्य (वृक्षाः) वटादयः (उपस्तयः) ये उप समीपे स्त्यायन्ति=संघ्नन्ति ते। अत्रोपपूर्वात्सत्यै संघात इत्यस्मादौणादिकः क्विप् संप्रसारणं च (उपस्तिः) संहतिः (अस्तु) (सः) (अस्माकम्) (यः) (अस्मान्) (अभिदासति) अभीष्टं सुखं ददाति।। १०१।।
अन्वयः -- हे वैद्यजन! योऽस्मान् अभिदासति स त्वमस्माकमुपस्तिरस्तु योत्तमौषधे—ओषधिरसि--अस्ति तव यस्य वृक्षा उपस्तयस्तेनौषधिनाऽस्मभ्यं सुखं देहि।। १०१।।
Essence
मनुष्यैर्न कदाचिद् विरोधिनो वैद्यस्योषधं ग्राह्यं, न विरोधिमित्रस्य च, किन्तु यो वैद्यकशास्त्रविदाप्तोऽजातशत्रुः सर्वोपकारी सर्वेषां सुहृद् वर्त्तते तस्मादौषधविद्या संग्राह्या॥
Subject
पुनस्सौषधिः कीदृशीत्याह॥
Meaning of Anvay
हे वैद्यजन! योऽस्मान् अभिदासति अभीष्टं सुखं ददाति, स त्वमऽस्माकमुपस्तिः संहतिः अस्तु, योत्तमौषधे=ओषधिरसि=अस्ति, तव=यस्य वृक्षाः वटादयः उपस्तयः ये उप=समीपे स्त्यायन्ति=संघ्नन्ति ते, तेनौषधिनास्मभ्यं सुखं देहि ।। १२। १०१।।

[हे वैद्यजन! योऽस्मानभिदासति स त्वमस्माकमुपस्तिरस्तु]
Special
वरुणः। भिषजः=वैद्याः। निचृदनुष्टुप्। गान्धारः॥