Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 9

82 Mantra
11/9
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगतिशक्वरी Swara- पञ्चमः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्यमङ्गिर॒स्वदाभ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत्॥९॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व᳕ इति॑ प्रऽस॒वे᳕। अ॒श्विनोः॑। बा॒हुभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। आ। भ॒र॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत् ॥९ ॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । आददे गायत्रेण च्छन्दसाङ्गिरस्वत्पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर त्रैष्टुभेन छन्दसाङ्गिरस्वत् ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्याम्। पूष्णः। हस्ताभ्याम्। आ। ददे। गायत्रेण। छन्दसा। अङ्गिरस्वत्। पृथिव्याः। सधस्थादिति सधऽस्थात्। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। आ। भर। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैऽस्तुभेन। छन्दसा। अङ्गिरस्वत्॥९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) सूर्यादिजगते प्रदीपकस्य (त्वा) त्वाम् (सवितुः) सर्वेषामैश्वर्य्यव्यवस्थां प्रति प्रेरकस्य (प्रसवे) निष्पन्नैश्वर्ये (अश्विनोः) प्राणोदानयोः (बाहुभ्याम्) बलाकर्षणाभ्याम् (पूष्ण:) पुष्टिकर्त्र्या (हस्ताभ्याम्) धारणाकर्षणाभ्याम् (आ) (ददे) स्वीकरोमि (गायत्रेण) गायत्रीनिर्मितेनार्थेन (छन्दसा) (अङ्गिरस्वत्) अङ्गिरोभिरङ्गारैस्तुल्यम् (पृथिव्याः) (सधस्थात्) सहस्थानात्तलात् (अग्निम्) विद्युदादिस्वरूपम् (पुरीष्यम्) पुरीषे=उदके साधुम् । अत्र पृधातोरौणादिक ईषन् किच्च। पुरीषमित्युदकना निघं० १ । १२ ॥ (अङ्गिरस्वत्) अङ्गिरोभिः=प्राणैस्तुल्यम् (आ) (भर) धर (त्रैष्टुभेन) त्रिष्टुभा निर्मितेनार्थेन (छन्दसा ) स्वच्छन्देन (अङ्गिरस्वत्) अङ्गिरोभिरङ्गैस्तुल्यम् ॥ ९ ॥
Essence
अत्रोपमालङ्कारः। मनुष्यैरीश्वरसृष्टिगुणविदं विद्वांसं संसेव्य, पृथिव्यादिस्थोऽग्निः स्वीकार्यः ॥ ११॥
Subject
मनुष्या भूमितत्त्वादिभ्यो विद्युतं स्वीकुर्य्यरित्याह ॥
Meaning of Anvay
हे विद्वन् । अहं यं त्वा त्वां देवस्य सूर्यादिजगतेः प्रदीपकस्य सवितुः सर्वेषामैश्वर्य्यव्यवस्थां प्रति प्रेरकस्य प्रसवे निष्पन्नैश्वर्य्ये अश्विनोः प्राणोदानयोः बाहुभ्यां बलाऽऽकर्षणाभ्यां पूष्णः पुष्टिकर्त्र्या हस्ताभ्यां धारणाऽऽकर्षणाभ्याम् अङ्गिरस्वत् अङ्गिरोभिरङ्गारैस्तुल्यम् आ+ददे स्वीकरोमि, स त्वं गायत्रेण गायत्रीनिर्मितेनार्थेन छन्दसा पृथिव्याः सधस्थात् सहस्थानात्तलात् अङ्गिरस्वत् अङ्गिरोभिः=प्राणैस्तुल्यं त्रैष्टुभेन त्रिष्टुभा निर्मितेनाऽर्थेन छन्दसा स्वच्छन्देन अङ्गिरस्वत् अङ्गिरोभिरङ्गैस्तुल्यं पुरीष्यं पुरीषे=उदके साधुम् अग्निं विद्युदादिस्वरूपम् आ+भर धर ॥ ९॥
[हे विद्वन्! अहं यं त्वा देवस्य सवितुः प्रसवे.......अङ्गिरस्वदाददे, स त्वं........पृथिव्या अग्निमाभर]
हे विद्वन् ! अहं यं त्वा देवस्य सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामंगिरस्वदाददे स त्वं गायत्रेण छन्दसा पृथिव्याः सधस्थादङ्गिरस्वत् त्रैष्टुभेन छन्दसाऽङ्गिरस्वत्पुरीष्यमग्निमाभर ॥ ९ ॥
Special
प्रजापतिः । सविता=ईश्वरः । भुरिगतिशक्वरी । पञ्चमः ॥