Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 83

82 Mantra
11/83
Devata- यजमानपुरोहितौ देवते Rishi- नाभानेदिष्ठ ऋषिः Chhand- उपरिष्टाद् बृहती Swara- मध्यमः
Mantra with Swara
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑। प्रप्र॑ दा॒तारं॑ तारिष॒ऽऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे॥८३॥

अन्न॑पत॒ इत्यन्न॑ऽपते। अन्न॑स्य। नः॒। दे॒हि॒। अ॒न॒मी॒वस्य॑। शु॒ष्मिणः॑। प्र॒प्रेति॒ प्रऽप्र॑। दा॒तार॑म्। ता॒रि॒षः॒। ऊर्ज॑म्। नः॒। धे॒हि॒। द्वि॒पद॒ इति॑ द्वि॒ऽपदे॑। चतु॑ष्पदे। चतुः॑ऽपद॒ इति॒ चतुः॑ऽपदे ॥८३ ॥

Mantra without Swara
अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्र दातारन्तारिषऽऊर्जन्नो धेहि द्विपदे चतुष्पदे ॥

अन्नपत इत्यन्नऽपते। अन्नस्य। नः। देहि। अनमीवस्य। शुष्मिणः। प्रप्रेति प्रऽप्र। दातारम्। तारिषः। ऊर्जम्। नः। धेहि। द्विपद इति द्विऽपदे। चतुष्पदे। चतुःऽपद इति चतुःऽपदे॥८३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अन्नपते) अन्नानां पालक (अन्नस्य) (नः) अस्मभ्यम् (देहि) (अनमीवस्य) रोगरहितस्य सुखकरस्य (शुष्मिणः) बहु शुष्मं=बलं भवति यस्मात्तस्य (प्रप्र) अतिप्रकृष्टतया (दातारम्) (तारिषः) संतर (ऊर्जम्) पराक्रमम् (नः) अस्माकम् (धेहि) (द्विपदे) द्वौ पादौ यस्य मनुष्यादेस्तस्मै (चतुष्पदे) चत्वारः पादा यस्य गवादेस्तस्मै ॥ ८३ ॥
Essence
मनुष्यैः सदैवारोग्यबलकारकमन्नं स्वैर्भोक्तव्यमन्येभ्यः प्रदातव्यं च ।
[नोऽस्माकं द्विपदे चतुष्पदे ऊर्जं धेहि]
मनुष्याणां पशूनां च सुखबले संवर्धनीये। यत् ईश्वरसृष्टिक्रमाऽनुकूलाऽऽचरणेन सर्वेषां सुखोन्नतिः सदा वर्धेत ॥
Subject
अथ मनुष्यैः कथं कथं वर्त्तितव्यमित्युपदिश्यते ॥
Meaning of Anvay
हे अन्नपते !=यजमान ! पुरोहित ! वा अन्नानां पालक! त्वं नः अस्मभ्यम् अनमीवस्य रोगरहितस्य सुखकरस्य शुष्मिणः बहु शुष्मं=बलं भवति यस्मात्तस्य अन्नस्य प्रप्र+देहि अतिप्रकृष्टतया देहि। अस्य अन्नस्य दातारं तारिषः सन्तर। नः=अस्माकं द्विपदे द्वौ पादौ यस्य मनुष्यादेस्तस्मै चतुष्पदे चत्वारः पादा यस्य गवादेस्तस्मै ऊर्जं पराक्रमं धेहि ॥ ८३ ॥
[हे अन्नपते!......त्वं नोऽनमीवस्य शुष्मिणोऽन्नस्य प्र प्र देहि]
हे अन्नपते यजमान पुरोहित वा ! त्वं नोऽनमीवस्य शुष्मिणोऽन्नस्य प्रप्रदेहि। अस्याऽन्नस्य दातारं तारिषः। नोऽस्माकं द्विपदे चतुष्पदे ऊर्जं धेहि ॥ ८३ ॥
Meaning of Essence
अनमीवस्य=आरोग्यकारकस्य । शुष्मिणः=बलकारकस्य । द्विपदे=मनुष्येभ्यः । चतुष्पदे=पशुभ्यः । ऊर्जम्=सुखं बलं च । धेहि=संवर्धय ।
Special
नाभानेदिः । यजमानपुरोहितौ=स्पष्टम् । उपरिष्टाद्बृहती। मध्यमः ।

[पूर्वापराध्यायसंगतिमाह--]
अत्र गृहस्थराजपुरोहितसभासेनाधीशप्रजाजनकर्त्तव्यकर्मादिवर्णनादेतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह संगतिरस्तीत्यवगन्तव्यम्॥
इति श्रीयुतपण्डितसुदर्शनदेवाचार्यकृते दयानन्द-यजुर्वेदभाष्य-भास्करे एकादशोऽध्यायः सम्पूर्णः ॥ ११ ॥