Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 82

82 Mantra
11/82
Devata- सभापतिर्यजमानो देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
उदे॑षां बा॒हूऽअ॑तिर॒मुद्वर्चो॒ऽअथो॒ बल॑म्। क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वाँ२अ॒हम्॥८२॥

उत्। ए॒षा॒म्। बा॒हूऽइति॑ बा॒हू। अ॒ति॒र॒म्। उत्। वर्चः॑। अथो॒ऽइत्यथो॑। बल॑म्। क्षि॒णोमि॑। ब्रह्म॑णा। अ॒मित्रा॑न्। उत्। न॒या॒मि॒। स्वान्। अ॒हम् ॥८२ ॥

Mantra without Swara
उदेषाम्बाहूऽअतिरमुद्वर्चाऽअथो बलम् । क्षिणोमि ब्रह्मणामित्रानुन्नयामि स्वाँऽअहम् ॥

उत्। एषाम्। बाहूऽइति बाहू। अतिरम्। उत्। वर्चः। अथोऽइत्यथो। बलम्। क्षिणोमि। ब्रह्मणा। अमित्रान्। उत्। नयामि। स्वान्। अहम्॥८२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उत्) (एषाम्) पूर्वोक्तानां चोरादीनां दुष्कर्मकारिणाम् (बाहू) बलवीर्य्ये (अतिरम्) सन्तरेयमुल्लङ्घेयम् (उत्) (वर्चः) तेजः (अथो) आनन्तर्ये (बलम्) सामर्थ्यम् (क्षिणोमि) हिनस्मि (ब्रह्मणा) वेदेश्वरविज्ञानप्रदानेन (अमित्रान्) शत्रून् (उत्) (नयामि) ऊर्ध्वं बध्नामि (स्वान्) स्वकीयान् (अहम्) ॥८२ ॥
Essence
राजादिभिर्यजमानैः, पुरोहितादिभिश्च पापिनां सर्वस्वक्षयः,
[अथो स्वान्.....वर्चो बलं च उन्नयामि]
धर्मात्मनां सर्वस्ववृद्धिश्च सर्वथा कार्या ॥ ८२ ॥
Subject
पुनर्यजमानः पुरोहितं प्रति कथं वर्त्तेतेत्याह ॥
Meaning of Anvay
अहं= यजमानः पुरोहितो वा ब्रह्मणा वेदेश्वरविज्ञानप्रदानेन एषां पूर्वोक्तानां चोरादीनां दुष्कर्मकारिणां बाहू बलवीर्ये उद्+अतिरं सन्तरेयमुल्लङ्घेयम्। वर्चः तेजः बलं सामर्थ्यम् अमित्रान् शत्रून् च [उत्]+क्षिणोमि हिनस्मि अथो अनन्तरं स्वान् स्वकीयान् सुहृदो वर्चः तेजः बलं सामर्थ्यं च उत्+नयामि=प्रापयामि ऊर्ध्वं बध्नामि ॥ ८२ ॥
[अहं यजमानः पुरोहितो वा ब्रह्मणैषां बाहू उदतिरं, वर्चो बलममित्रांश्च उत्क्षिणोमि]
अहं यजमानः पुरोहितो वा ब्रह्मणैषां बाहू उदतिरम् । वर्चो बलममित्रांश्च क्षिणोम्यथो स्वान् सुहृदो वर्चो बलं चोन्नयामि प्रापयामि ॥ ८२ ॥
Meaning of Essence
एषाम्=पापिनाम् । स्वान्=धर्मात्मनः ॥
Special
नाभानेदिः । सभापतिर्यजमानः=राजा यजमानश्च । विराडनुष्टुप् । गान्धारः ॥