Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 81

82 Mantra
11/81
Devata- पुरोहितयजमानौ देवते Rishi- नाभानेदिष्ठ ऋषिः Chhand- निचृदार्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं वी॒र्यं बल॑म्। सꣳशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्॑िम पु॒रोहि॑तः॥८१॥

सꣳशि॑त॒मिति॒ सम्ऽशि॑तम्। मे॒। ब्रह्म॑। सꣳशि॑त॒मिति॒ सम्ऽशि॑तम्। वी॒र्य᳕म्। बल॑म्। सꣳशि॑त॒मिति॒ सम्ऽशि॑तम्। क्ष॒त्रम्। जि॒ष्णु। यस्य॑। अ॒हम्। अस्मि॑। पु॒रोहि॑त॒ इति॑ पु॒रःऽहि॑तः ॥८१ ॥

Mantra without Swara
सँशितम्मे ब्रह्म सँशितं वीर्यम्बलम् । सँशितङ्क्षत्रञ्जिष्णु यस्याहमस्मि पुरोहितः ॥

सꣳशितमिति सम्ऽशितम्। मे। ब्रह्म। सꣳशितमिति सम्ऽशितम्। वीर्यम्। बलम्। सꣳशितमिति सम्ऽशितम्। क्षत्रम्। जिष्णु। यस्य। अहम्। अस्िम। पुरोहित इति पुरःऽहितः॥८१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(संशितम्) प्रशंसनीयम् (मे) मम यजमानस्य (ब्रह्म) वेदविज्ञानम् (संशितम्) (वीर्य्यम्) पराक्रमः (बलम्) (संशितम्) (क्षत्रम्) क्षत्रियकुलम् (जिष्णु) जयशीलम् (यस्य) जनस्य (अहम्) (अस्मि) (पुरोहितः) यं यजमानः पुरः=पूर्वं दधाति सः । पुरोहितः पुर एनं दधति ॥ निरु० २ । १२ ॥ ८१ ॥
Essence
यो यस्य पुरोहितो यजमानश्च भवेत्, तावन्योऽन्यस्य यया विद्यया, योगबलेन, धर्माचरणेन चात्मोन्नतिः, ब्रह्मचर्येण जितेन्द्रियत्वेनारोग्येण च शरीरस्य बलं वर्धेत, तदेव कर्म सततं कुर्याताम् ॥ ११ । ८१ ॥
Subject
अथ पुरोहितो यजमानादिभ्यः किं किमिच्छेत्कुर्याच्चेत्याह ॥
Meaning of Anvay
अहं यस्य जनस्य पुरोहितः यं यजमानः पुरः=पूर्वं दधाति सः, अस्मि, तस्य मे=मम मम यजमानस्य तस्य च संशितं प्रशंसनीयं ब्रह्म वेदविज्ञानं, मे मम यजमानस्य तस्य च संशितं प्रशंसनीयं वीर्य्यं पराक्रमः, संशितं प्रशंसनीयं बलं, संशितं प्रशंसनीयं जिष्णु जयशीलं क्षत्रं क्षत्रियकुलं चाऽस्तु ॥ ८१ ॥
[अहं यस्य पुरोहितोऽस्मि तस्य मे........संशितं ब्रह्म.......वीर्यं........बलं जिष्णु क्षत्रं चाऽस्तु]
अहं यस्य पुरोहितोऽस्मि तस्य मे मम तस्य च संशितं ब्रह्म मे तस्य च संशितं वीर्य्यं संशितं बलं संशितं जिष्णु क्षत्रं चास्तु ॥ ८१ ॥
Meaning of Essence
ब्रह्म=विद्या, योगबलम्, धर्माचरणम्। बलम्=ब्रह्मचर्येण जितेन्द्रियत्वेनारोग्येण च शरीरस्य बलम्।
Special
नाभानेदिः । पुरोहितयजमानौ=स्पष्टम् ॥ निचृदार्षी पंक्तिः । पञ्चमः ॥