Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 80

82 Mantra
11/80
Devata- अध्यापकोपदेशकौ देवते Rishi- नाभानेदिष्ठ ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
योऽअ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वे॑षते॒ जनः॑। निन्दा॒द्योऽअ॒स्मान् धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु॥८०॥

यः। अ॒स्मभ्य॑म्। अ॒रा॒ती॒यात्। अ॒रा॒ति॒यादित्य॑राति॒ऽयात्। यः। च॒। नः॒। द्वेष॑ते। जनः॑। निन्दा॑त्। यः। अ॒स्मान्। धिप्सा॑त्। च॒। सर्व॑म्। तम्। भ॒स्म॒सा। कु॒रु॒ ॥८० ॥

Mantra without Swara
योऽअस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्योऽअस्मान्धिप्साच्च सर्वन्तम्भस्मसा कुरु ॥

यः। अस्मभ्यम्। अरातीयात्। अरातियादित्यरातिऽयात्। यः। च। नः। द्वेषते। जनः। निन्दात्। यः। अस्मान्। धिप्सात्। च। सर्वम्। तम्। भस्मसा। कुरु॥८०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यः) मनुष्यः (अस्मभ्यम्) धार्मिकेभ्य. (अरातीयात्) शत्रुत्वमाचरेत् (यः) (च) (नः) अस्मान् (द्वेषते) अप्रीतयति। अत्र बहुलं छन्दसीति शपो लुगभावः (जनः) (निन्दात्) निन्देत् (यः) (अस्मान्) (धिप्सात्) दम्भितुमिच्छेत् (च) (सर्वम्) (तम्) (भस्मसा) कृत्स्नम्भस्मेति भस्मसा । अत्र छन्दसो वर्णलोप इति तलोपः (कुरु) सम्पादय ॥ ८० ॥
Essence
अध्यापक-उपदेशक-राजपुरुषाणामिदं योग्यमस्ति यदध्यापनेन शिक्षयोपदेशेन दण्डेन च विरोधस्य सततं विनाशकरणमिति॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे सभासेनेश ! त्वं यः मनुष्यः जनः अस्मभ्यं धार्मिकेभ्यः अरातीयात् शत्रुत्वमाचरेत्, यः नः अस्मान् द्वेषते अप्रीतयति, निन्दात् निन्देत् च, यः अस्मान् धिप्सात्=छलेत् दम्भितुमिच्छेत् च तं सर्वं भस्मसा कृत्स्नं भस्मेति भस्मसा कुरु सम्पादय ॥ ८० ॥
[हे सभासेनेश! त्वं यो जनो....... अरातीयात्......निन्दात्.....धिप्सात्......सर्वं भस्मसा कुरु]
हे सभासेनेश ! त्वं यो जनोऽस्मभ्यमरातीयाद्यो नो द्वेषते निन्दाच्च योऽस्मान् धिप्साच्छलेच्च तं सर्वं भस्मसा कुरु ॥ ८० ॥
Special
नाभानेदिः । अध्यापकोपदेशकौ=स्पष्टम् । अनुष्टुप् । गान्धारः ॥