Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 8

82 Mantra
11/8
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- भुरिक् शक्वरी Swara- धैवतः
Mantra with Swara
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्यꣳ सखि॒विद॑ꣳ सत्रा॒जितं॑ धन॒जित॑ꣳ स्व॒र्जित॑म्। ऋ॒चा स्तोम॒ꣳ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद् गा॑य॒त्रव॑र्त्तनि॒ स्वाहा॑॥८॥

इ॒मम्। नः॒। दे॒व॒। स॒वि॒तः॒। य॒ज्ञम्। प्र। न॒य॒। दे॒वा॒व्य᳖मिति॑ देवऽअ॒व्य᳖म्। स॒खि॒विद॒मिति॑ सखि॒ऽविद॑म्। स॒त्रा॒जित॒मिति॑ सत्रा॒ऽजित॑म्। ध॒न॒जित॒मिति॑ धन॒ऽजित॑म्। स्व॒र्जित॒मिति॑ स्वः॒ऽजित॑म्। ऋ॒चा। स्तोम॑म्। सम्। अ॒र्ध॒य॒। गा॒य॒त्रेण॑। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। बृ॒हत्। गा॒य॒त्रव॑र्त्त॒नीति॑ गाय॒त्रऽव॑र्त्तनि। स्वाहा॑ ॥८ ॥

Mantra without Swara
इमन्नो देव सवितर्यज्ञम्प्रणय देवाव्यँ सखिविदँ सत्राजितन्धनजितँ स्वर्जितम् । ऋचा स्तोमँ समर्धय गायत्रेण रथन्तरम्बृहद्गायत्रवर्तनि स्वाहा ॥

इमम्। नः। देव। सवितः। यज्ञम्। प्र। नय। देवाव्यमिति देवऽअव्यम्। सखिविदमिति सखिऽविदम्। सत्राजितमिति सत्राऽजितम्। धनजितमिति धनऽजितम्। स्वर्जितमिति स्वःऽजितम्। ऋचा। स्तोमम्। सम्। अर्धय। गायत्रेण। रथन्तरमिति रथम्ऽतरम्। बृहत्। गायत्रवर्त्तनीति गायत्रऽवर्त्तनि। स्वाहा॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इमम्) उक्तं वक्ष्यमाणं च (नः) अस्माकम् (देव) सत्यकामनाप्रद (सवितः) अन्तर्यामिरूपेण प्रेरक (यज्ञम्) विद्याधर्मसंगमयितारम् (प्र) (नय) प्रापय (देवाव्यम्) देवान्=दिव्यान् विदुषो गुणान् वाऽवन्ति येन स देवावीस्तम् । अत्रौणादिक ईप्रत्ययः (सखिविदम् ) सखीन्=सुहृदो विदन्ति येन तम् (सत्राजितम्) सत्रा=सत्यं जयत्युत्कर्षति येन तम् (धनजितम्) धनं जयत्युत्कर्षति येन तम् (स्वर्जितम्) स्वः=सुखं जयत्युत्कर्षति येन तम् (ऋचा) ऋग्वेदेन (स्तोमम्) स्तूयते यस्तम् (सम्) (अर्धय) वर्धय (गायत्रेण) गायत्रीप्रभृति छन्दसैव (रथन्तरम्) रथैरमणीयैर्यानैस्तरन्ति येन तत् (गायत्रवर्त्तनि) गायत्रस्य वर्त्तनिर्मार्गो वर्त्तनं यस्मिन् तत् (बृहत्) महत् (स्वाहा) सत्यक्रियया वाचा वा ॥ ८ ॥
Essence
ये जना ईर्ष्या द्वेषादिदोषान् विहायेश्वर इव सर्वैः सह सुहृदभावमाचरन्ति ते संवर्धितुं शक्नुवन्ति ॥ ११ । ८ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे देव सत्यकामनाप्रद ! सवितः=जगदीश ! अन्तर्यामिरूपेण प्रेरक ! त्वं नः अस्माकम् इमम् उक्तं वक्ष्यमाणं च देवाव्यं देवान्=दिव्यान् विदुषो गुणान् वाऽवन्ति येन स देवावीस्तम्, सखिविदं सखीन्=सुहृदो विदन्ति येन तम्, सत्राजितं सत्रा=सत्यं जयत्युत्कर्षति येन तम्, धनजितं धनं जयत्युत्कर्षति येन तम्, स्वर्जितं स्वः=सुखं जयत्युत्कर्षति येन तम्, ऋचा ऋग्वेदेन स्तोमं स्तूयते यस्तं यज्ञं विद्याधर्मसंगमयितारं सत्यक्रियया वाचा वा प्र+णय प्रापय । गायत्रेण गायत्रीप्रभृतिछन्दसैव गायत्रवर्त्तनि गायत्रस्य वर्त्तनिः=मार्गो वर्त्तनं यस्मिन् तद् बृहत् महद् रथन्तरं रथैः=रमणीयैर्यानस्तरन्ति येन तत् च सम्+अर्धय वर्धय ॥ ८ ॥
हे देव सवितर्जगदीश ! त्वं न इमं देवाव्यं सखिविदं सत्राजितं धनजितं स्वर्जितमृचा स्तोमं यज्ञं प्रणय गायत्रेण गायत्रवर्त्तनि बृहद्रथन्तरं च समर्धय ॥ ८ ॥
Meaning of Essence
सखिविदम्=सुहृद्भावम् ॥
Special
प्रजापतिः । सविता=ईश्वरः । भुरिक् शक्वरी । धैवतः ॥