Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 79

82 Mantra
11/79
Devata- सेनापतिर्देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑। ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः॥७९॥

ये। जने॑षु। म॒लिम्ल॑वः। स्ते॒नासः॑। तस्क॑राः। वने॑। ये। कक्षे॑षु। अ॒घा॒यवः॑। अ॒घ॒यव॒ इत्य॑घ॒ऽयवः॑। तान्। ते॒। द॒धा॒मि॒। जम्भ॑योः ॥७९ ॥

Mantra without Swara
ये जनेषु मलिम्लव स्तेनासस्तस्करा वने । ये कक्षेष्वघायवस्ताँस्ते दधामि जम्भयोः ॥

ये। जनेषु। मलिम्लवः। स्तेनासः। तस्कराः। वने। ये। कक्षेषु। अघायवः। अघयव इत्यघऽयवः। तान्। ते। दधामि। जम्भयोः॥७९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(ये) (जनेषु) मनुष्येषु (मलिम्लवः) ये मलिनाः सन्तो म्लोचन्ति=गच्छन्ति ते (स्तेनासः) गुप्ताश्चोराः (तस्कराः) प्रसिद्धाः (वने) अरण्ये (ये) (कक्षेषु) सामन्तेषु (अघायवः) आत्मनोऽघेन= पापेनायुरिच्छवः (तान्) (ते) तव (दधामि) (जम्भयोः) बन्धने=मुखमध्ये ग्रासमिव ॥ ७९॥
Essence
हे सभेश ! सेनापतिरहं ये जनेषु मलिम्लवः स्तेनासो ये वने तस्करा ये तेष्वघायवः सन्ति ताँस्ते जम्भयोर्ग्रासमिव दधामि ॥ ७९ ॥
Subject
पुनरेते काँस्कान् निवर्त्तयेयुरित्याह॥
Meaning of Anvay
हे सभेश ! सेनापतिरहं ये जनेषु मनुष्येषु मलिम्लवः ये मलिना: सन्तो म्लोचन्ति=गच्छन्ति ते, स्तेनास: गुप्ताश्चोराः, ये वने अरण्ये तस्कराः प्रसिद्धाः, ये कक्षेषु सामन्तेषु अघायवः आत्मनोऽघेन=पापेनाऽऽयुरिच्छवः सन्ति, तान् ते तव जम्भयोः ग्रासं बन्धने=मुखमध्ये ग्रासम् इव दधामि ॥ ७९॥
[हे सभेश! सेनापतिरहं ये मनुष्येषु मलिम्लवः, स्तेनासः, ये वने तस्कराः, ये कक्षेष्वघायवः सन्ति तान् जम्भयोः ग्रासमिव दधामि]
हे सभेश ! सेनापतिरहं ये जनेषु मलिम्लवः स्तेनासो ये वने तस्करा ये तेष्वघायवः सन्ति ताँस्ते जम्भयोर्ग्रासमिव दधामि ॥ ७९ ॥
Meaning of Essence
स्तेनासः=प्रसिद्धा अप्रसिद्धाश्चोराः। अघायवः=पापाचाराः पुरुषाः ॥
Special
नाभानेदिः । सेनापतिः=स्पष्टम् । निचृदनुष्टुप् । गान्धारः ॥