Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 78

82 Mantra
11/78
Devata- अग्निर्देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- भुरिगुष्णिक् Swara- ऋषभः
Mantra with Swara
दꣳष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ२ऽउ॒त। हनु॑भ्या॒ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान्॥७८॥

दꣳष्ट्रा॑भ्याम्। म॒लिम्लू॑न्। जम्भ्यैः॑। तस्क॑रान्। उ॒त। हनु॑भ्या॒मिति॒ हनु॑ऽभ्याम्। स्ते॒नान्। भ॒ग॒व॒ इति॑ भगऽवः। तान्। त्वम्। खा॒द॒। सुखा॑दिता॒निति॒ सुऽखा॑दितान् ॥७८ ॥

Mantra without Swara
दँष्ट्राभ्याम्मलिम्लून्जम्भ्यैस्तस्कराँ उत । हनुभ्याँ स्तेनान्भगवस्ताँस्त्वङ्खाद सुखादितान् ॥

दꣳष्ट्राभ्याम्। मलिम्लून्। जम्भ्यैः। तस्करान्। उत। हनुभ्यामिति हनुऽभ्याम्। स्तेनान्। भगव इति भगऽवः। तान्। त्वम्। खाद। सुखादितानिति सुऽखादितान्॥७८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(दंष्ट्राभ्याम्) तीक्ष्णाग्राभ्यां दन्ताभ्याम् (मलिम्लुन्) मलिनाचारान् सिंहादीन् (जम्भ्यैः) जम्भेषु=सुखेषु भवैर्जिह्वादिभिः (तस्करान्) चोर इव वर्त्तमानान् (उत) अपि (हनुभ्याम्) ओष्ठमूलाभ्याम् (स्तेनान्) परपदार्थापहर्तृन् (भगवः) ऐश्वर्यसम्पन्न राजन् (तान्) (त्वम्) (खाद) विनाशय (सुखादितान्) अन्यायेन परपदार्थानां भोक्तृन् ॥ ७८॥
Essence
राजपुरुषैर्ये गवादिहिंसकाः पशवः पुरुषाश्च, ये च स्तेनास्ते विविधेन बन्धनेन ताडनेन नाशनेन वा=वशं नेयाः ॥ ११ । ७८ ॥
Subject
पुनस्तान् कथं ताडयेयुरित्याह ॥
Meaning of Anvay
हे भगवः=सभासेनेश ऐश्वर्य्यसम्पन्न राजन् ! यथा त्वं जम्भ्यैः जम्भेषु=सुखेषु भवैर्जिह्वादिभिः दंष्ट्राभ्यां तीक्ष्णाग्राम्यां दन्ताभ्यां यान् मलिम्लून् मलिनाऽऽचारान् सिंहादीन् तस्करान् चोर इव वर्त्तमानान् हनुभ्याम् ओष्ठमूलाभ्यां सुखादितान् अन्यायेन परपदार्थानां भोक्तृन् स्तेनान् परपदार्थाऽपहर्तृन् न् खाद=विनाशयेः विनाशय। तान् वयम् उत अपि विनाशयेम ॥ ७८ ॥
[ हे भगवः! सभासेनेशः!.........त्वं जम्भ्यै दंष्ट्राभ्यां मलिम्लून् तस्करान्........स्तेनान् खाद]
हे भगवः सभासेनेश ! यथा त्वं जम्भ्यैर्दंष्ट्राभ्यां यान् मलिम्लून् तस्करान् हनुभ्यां सुखादितान् स्तेनान् खाद विनाशयेस्तान् वयमुत विनाशयेम ॥ ७८ ॥
Meaning of Essence
मलिम्लून्=गवादिहिंसकान् पशून्, पुरुषान् वा॥
Special
नाभानेदिः । अग्निः=सभासेनेशः । भुरिगुष्णिक् । ऋषभः ॥