Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 77

82 Mantra
11/77
Devata- अग्निर्देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
याः सेना॑ऽअ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णाऽउ॒त। ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ऽअ॒ग्नेऽपि॑दधाम्या॒स्ये॥७७॥

याः। सेनाः॑। अ॒भीत्व॑री॒रित्य॑भि॒ऽइत्व॑रीः। आ॒व्या॒धिनी॒रित्या॑ऽव्या॒धिनीः॑। उग॑णाः। उ॒त। ये। स्ते॒नाः। ये। च॒। तस्क॑राः। तान्। ते॒। अ॒ग्ने॒। अपि॑। द॒धा॒मि॒। आ॒स्ये᳖ ॥७७ ॥

Mantra without Swara
याः सेनाऽअभीत्वरीराव्याधिनीरुगणाऽउत । ये स्तेना ये च तस्करास्ताँस्तेऽअग्नेपिदधाम्यास्ये ॥

याः। सेनाः। अभीत्वरीरित्यभिऽइत्वरीः। आव्याधिनीरित्याऽव्याधिनीः। उगणाः। उत। ये। स्तेनाः। ये। च। तस्कराः। तान्। ते। अग्ने। अपि। दधामि। आस्ये॥७७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(याः) (सेनाः) (अभीत्वरीः) आभिमुख्यं राजविरोधं कुर्वती: (आव्याधिनीः) समन्तद्बहुरोगयुक्तास्ताडितुं शीला वा (उगणाः) उद्यतायुधसमूहाः। पृषोदरादित्वादभीष्टसिद्धि: (उत) अपि (ये) (स्तेनाः) सुरङ्गं दत्त्वा परपदार्थापहारिणः (ये) (च) दस्यवः (तस्कराः) द्यूतादिकापट्येन परपदार्थापहर्त्तारः (तान्) (ते) अस्य। अत्र व्यत्ययः (अग्ने) पावकस्य (अपि) (दधामि) प्रक्षिपामि (आस्ये) प्रज्वलिते ज्वालासमूहेऽग्नौ ॥ ७७ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। धार्मिकै राजपुरुषैर्या अनुकूलाः सेनाः प्रजाश्च सन्ति ताः सततं सम्पूज्य, या विरोधिन्यो--
[उत--ये स्तेना ये तस्कराश्च सन्ति]
ये च दस्य्वादयश्चोरा दुष्टवाचोऽनृतवादिनो व्यभिचारिणो मनुष्या भवेयुस्तान्--
[तॉस्तेऽस्याग्नेरास्येऽपिदधामि]
अग्निदाहाद्युद्वेजनकरैर्दण्डैर्भृशं ताडयित्वा वशं नेयाः ॥ ११ । ७७ ॥
Subject
पुनः पुनरेते चोरादीन् प्रयत्नेन निवर्त्तयेयुरित्याह ॥
Meaning of Anvay
हे सेनासभापते ! यथाऽहं याः अभीत्वरी: आभिमुख्यं राजविरोधं कुर्वती: आव्याधिनीः समन्ताद् बहुरोगयुक्तास्ताडितुं शीला वा उगणाः उद्यताऽऽयुधसमूहाः सेनाः सन्ति, ता उत अपि ये स्तेनाः सुरङ्गं दत्त्वा परपदार्थाऽपहारिणः ये तस्कराः द्यूतादिकापट्येन परपदार्थाऽपहर्त्तारः च सन्ति, ताँस्ते=अस्य अग्नेः पावकस्य आस्ये प्रज्वलिते ज्वालासमूहे ऽग्नौ अपि+दधामि प्रक्षिपामि तथा त्वमेतानि दधेहि॥
[हे सेनासभापते!........अभीत्वरीः, आव्याधिनीः, उगणाः सेनाः सन्ति]
हे सेनासभापते ! यथाऽहं या अभीत्वरीराव्याधिनीरुगणाः सेनाः सन्ति ता उत ये स्तेना ये तस्कराश्च सन्ति ताँस्तेऽस्याग्नेः पावकस्यास्येऽपि दधामि तथात्वमेतानि दधेहि ॥ ७७ ॥
Meaning of Essence
अभीत्वरीः=विरोधिन्यः। स्तेनाः=दस्यवादयः। तस्कराः=चोराः, दुष्टवाचोऽनृतवादिनो व्यभिचारिणो मनुष्याः ।
Special
नाभानेदिः। अग्निः=सेनासभापतिः। भुरिगनुष्टुप् । गान्धारः ॥