Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 76

82 Mantra
11/76
Devata- अग्निर्देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- स्वराडार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
नाभा॑ पृथि॒व्याः स॑मिधा॒नेऽअ॒ग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे। इ॒र॒म्म॒दं बृ॒हदु॑क्थं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम्॥७६॥

नाभा॑। पृ॒थि॒व्याः। स॒मि॒धा॒न इति॑ सम्ऽइधा॒ने। अ॒ग्नौ। रा॒यः। पोषा॑य। बृ॒ह॒ते। ह॒वा॒म॒हे॒। इ॒र॒म्म॒दमिती॑रम्ऽम॒दम्। बृ॒हदु॑क्थ॒मिति॑ बृ॒हत्ऽउ॑क्थम्। यज॑त्रम्। जेता॑रम्। अ॒ग्निम्। पृत॑नासु। सा॒स॒हिम्। सा॒स॒हिमिति॑ सस॒हिम् ॥७६ ॥

Mantra without Swara
नाभा पृथिव्याः समिधानेऽअग्नौ रायस्पोषाय बृहते हवामहे । इरम्मदम्बृहदुक्थ्यँयजत्रञ्जेतारमग्निम्पृतनासु सासहिम् ॥

नाभा। पृथिव्याः। समिधान इति सम्ऽइधाने। अग्नौ। रायः। पोषाय। बृहते। हवामहे। इरम्मदमितीरम्ऽमदम्। बृहदुक्थमिति बृहत्ऽउक्थम्। यजत्रम्। जेतारम्। अग्निम्। पृतनासु। सासहिम्। सासहिमिति ससहिम्॥७६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(नाभा) नाभौ मध्ये (पृथिव्याः) (समिधाने) सम्यक् प्रदीप्ते (अग्नौ) वह्नौ (रायः) श्रियः (पोषाय) पोषणकराय (बृहते) महते (हवामहे) स्पर्द्धामहे (इरम्मदम्) य इरयाऽनेन माद्यति=हृष्यति तम्। उग्रंपश्येरम्मदपाणिन्धमाश्च ॥ अ० ३ । २ । ३७ ॥ इति खश् प्रत्ययान्तो निपातः (बृहदुक्थम्) बृहन्महदुक्थं=प्रशंसनं यस्य तम् (यजत्रम्) संगन्तव्यम् (जेतारम्) जयशीलम् (अग्निम्) विद्युद्वद्वर्त्तमानम् (पृतनासु) सेनासु (सासहिम्) अतिशयेन सोढारम् ॥ ७६ ॥
Essence
भूमिराज्यं कुर्वद्भिर्जनैः शस्त्रास्त्राणि संचित्य पूर्णबुद्धिविद्याशरीरात्मबलसहितं पुरुषं सेनापतिं विधाय, निर्भयतया प्रवर्तन्ताम् ॥ १९ । ७६ ॥
Subject
पुनरेते परस्परं कथं संवदेरन्नित्याह ॥
Meaning of Anvay
हे गृहिणः ! यथा वयं बृहते महते रायः श्रियः पोषाय पोषणकराय पृथिव्याः नाभा नाभौ=मध्ये समिधाने सम्यक् प्रदीप्ते अग्नौ वह्नौ पृतनासु सेनासु सासहिम् अतिशयेन सोढारम् इरम्मदं य इरयान्नेन माद्यति=हृष्यति तं, बृहदुक्थं बृहन्महदुक्थं=प्रशंसनं यस्य तं, यजत्रं संगन्तव्यम् अग्निम् विद्युद्वद्वर्त्तमानम् इव जेतारं जयशीलं सेनापतिं हवामहे स्पर्द्धामहे, तथा यूयमप्याह्वयत॥ ७६॥
[हे गृहिणः! पृथिव्या नाभौ.......पृतनासु सासहिं.......बृहदुक्थं....अग्निमिव जेतारं सेनापतिं हवामहे]
हे गृहिणो ! यथा वयं बृहते रायस्पोषाय पृथिव्या नाभा समिधानेऽग्नौ पृतनासु सासहिमिरम्मदं बृहदुक्थं यजत्रमग्निमिव जेतारं सेनापतिं हवामहे तथा यूयमप्याह्वयत ॥ ७६॥
Meaning of Essence
पृथिव्याः=भूमेः। बृहदुक्थम्=पूर्णबुद्धिविद्याशरीरात्मबलसहितं पुरुषम्।
Special
नाभानेदिः । अग्निः=सेनापतिः ॥ स्वराडार्षी त्रिष्टुप् । धैवतः॥