Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 75

82 Mantra
11/75
Devata- अग्निर्देवता Rishi- नाभानेदिष्ठ ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै। रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम॥७५॥

अह॑रह॒रित्यहः॑ऽअहः। अप्र॑याव॒मित्यप्र॑ऽयावम्। भर॑न्तः। अश्वा॑ये॒वेत्यश्वा॑यऽइव। तिष्ठ॑ते। घा॒सम्। अ॒स्मै॒। रा॒यः। पोषे॑ण। सम्। इ॒षा। मद॑न्तः। अग्ने॑। मा। ते॒। प्रति॑वेशा॒ इति॒ प्रति॑ऽवेशाः। रि॒षा॒म॒ ॥७५ ॥

Mantra without Swara
अहर्हरप्रयावम्भरन्तो श्वायेव तिष्ठते घासमस्मै । रायस्पोषेण समिषा मदन्तो ग्ने मा ते प्रतिवेशा रिषाम ॥

अहरहरित्यहःऽअहः। अप्रयावमित्यप्रऽयावम्। भरन्तः। अश्वायेवेत्यश्वायऽइव। तिष्ठते। घासम्। अस्मै। रायः। पोषेण। सम्। इषा। मदन्तः। अग्ने। मा। ते। प्रतिवेशा इति प्रतिऽवेशाः। रिषाम॥७५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अहरहः) प्रतिदिनम् (अप्रयावम्) प्रयुवत्यन्यायं यस्मिन् स प्रयावो न विद्यते प्रयावो यस्मिन् गृहाश्रमे तम् (भरन्तः) धरन्तः (अश्वायेव) यथाश्वाय (तिष्ठते) वर्त्तमानाय (घासम्) भक्ष्यम् (अस्मै) गृहाश्रमाय (रायः) धनस्य (पोषेण) पुष्ट्या (सम्) (इषा) अन्नादिना (मदन्तः) हर्षन्त: (अग्ने) विद्वन् (मा) (ते) तव (प्रतिवेशाः) प्रतीता वेशा=धर्मप्रवेशा येषां ते (रिषाम) हिंस्याम। अत्र लिङर्थे लुङ् ॥ ७५ ॥
Essence
अत्रोपमालङ्कारः । गृहस्था यथा अश्वादिपशूनां भोजनार्थं यव दुग्धादिकमश्वपालका नित्यं संचिन्वन्ति, तथैश्वर्यं समुन्नीय सुखयेयुः ।
[रायस्पोषेणेषा संमदन्तः........वयं त ऐश्वर्यं मा रिषाम]
धनमदेन केनचित् सहेर्ष्या कदाचिन्न कुर्युः, परस्योत्कर्षं श्रुत्वा दृष्ट्वा च सदा हृष्येयुः ॥
Subject
पुनर्गृहस्थाः परस्परं कथं वर्त्तेरन्नित्याह ॥
Meaning of Anvay
हे अग्ने विद्वन् ! अहरहः प्रतिदिनं तिष्ठते वर्त्तमानाय अश्वाय यथाऽश्वाय इव अस्मै गृहाऽऽश्रमाय अप्रयावं प्रयुवत्यन्यायं यस्मिन् स प्रयावो, न विद्यते प्रयावो यस्मिन् गृहाऽऽश्रमे तं, घासं भक्ष्यं भरन्तः धरन्तः रायः धनस्य पोषेण पुष्ट्या इषा अन्नादिना सम्+मदन्तः हर्षन्तः, प्रतिवेशाः प्रतीता वेशा=धर्मप्रवेशा येषां ते, सन्तो वयं ते तव ऐश्वर्य्यं मा रिषाम हिंस्याम ॥ ७५ ॥
[हे अग्ने ! अहरहः......अश्वायेवास्मिन् घासं भरन्तो.......]
हे अग्ने ! अहरहस्तिष्ठतेश्वायेवास्मा अप्रयावं घासं भरन्तो रायस्पोषेणेषा संमदन्तः प्रतिवेशाः सन्तो वयं त ऐश्वर्यं मा रिषाम ॥ ७५ ॥
Meaning of Essence
अहरहः=नित्यम् । अश्वायेव=यथा अश्वादिपशूनां भोजनार्थम्। घासम्=यवदुग्धादिकम् ।
Special
नाभानेदिः । अग्निः=विद्वान् ॥ विराट् त्रिष्टुप्। धैवतः॥