Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 74

82 Mantra
11/74
Devata- अग्निर्देवता Rishi- जमदग्निर्ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रोऽअ॑ति॒सर्प॑ति। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य॥७४॥

यत्। अत्ति॑। उ॒प॒जिह्वि॑केत्यु॑प॒ऽजिह्वि॑का। यत्। व॒म्रः। अ॒ति॒सर्प॒तीत्य॑ति॒ऽसर्प॑ति। सर्व॑म्। तत्। अ॒स्तु॒। ते॒। घृ॒तम्। तत्। जु॒ष॒स्व॒। य॒वि॒ष्ठ्य॒ ॥७४ ॥

Mantra without Swara
यदत्त्युपजिह्विका यद्वम्रोऽअतिसर्पति । सर्वन्तदस्तु ते घृतन्तज्जुषस्व यविष्ठ्य ॥

यत्। अत्ति। उपजिह्विकेत्युपऽजिह्विका। यत्। वम्रः। अतिसर्पतीत्यतिऽसर्पति। सर्वम्। तत्। अस्तु। ते। घृतम्। तत्। जुषस्व। यविष्ठ्य॥७४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) (अत्ति) भुङ्क्ते (उपजिह्विका) उपगताऽनुकूला जिह्वा यस्याः पत्न्याः सा (यत्) (वम्रः) उद्गलितोदान: (अतिसर्पति) अतिशयेन गच्छति (सर्वम्) (तत्) (अस्तु) (ते) (घृतम्) (तत्) (जुषस्व) (यविष्ठ्य) ॥ ७४ ॥
Essence
यत्प्रति पतिः प्रवर्त्तते, स्त्री वा तदनुकूलौ दम्पती स्याताम् ।
यत् स्त्रियाः स्वं तत् पुरुषस्य यत् पुरुषस्य तत् स्त्रिया भवतु। नात्र कथंचिद् द्वेषो विधेयः, किन्तु परस्परं मिलित्वाऽऽनन्दं भुञ्जीयाताम् ॥ ११ । ७४ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे यविष्ठ्य अतिशयेन युवा यविष्ठः स एव तत्सम्बुद्धौ! त्वम् उपजिह्विका उपगताऽनुकूला जिह्वा यस्याः पत्न्याः सा च यद् अत्ति भुङ्क्ते, वम्रः उद्गलितोदान यद् अति+सर्पति अतिशयेन गच्छति, तत् सर्वं ते तुभ्यं तव वा अस्तु । यत् ते तव घृतम् आज्यम् अस्ति, तत् त्वं जुषस्व॥ ११ । ७४ ॥
[हे यविष्ठ्य! त्वमुपजिह्विका च यदत्ति........सर्व तेऽस्तु]
हे यविष्ठ्य ! त्वमुपजिह्विका च यदत्ति वम्रो यदत्ति सर्पति तत्सर्वं तेऽस्तु यत्ते घृतमस्ति तत्त्वं जुषस्व ॥ ७४ ॥
Special
जमदग्निः । अग्निः=पतिः। विराडनुष्टुप् । गान्धारः ॥