Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 73

82 Mantra
11/73
Devata- अग्निर्देवता Rishi- जमदग्निर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑। सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य॥७३॥

यत्। अ॒ग्ने॒। कानि॑। कानि॑। चि॒त्। आ। ते॒। दारु॑णि। द॒ध्मसि॑। सर्व॑म्। तत्। अ॒स्तु॒। ते॒। घृ॒तम्। तत्। जु॒ष॒स्व॒। य॒वि॒ष्ठ्य॒ ॥७३ ॥

Mantra without Swara
यदग्ने कानि कानि चिदा ते दारूणि दध्मसि । सर्वन्तदस्तु ते घृतन्तज्जुषस्व यविष्ठ्य ॥

यत्। अग्ने। कानि। कानि। चित्। आ। ते। दारुणि। दध्मसि। सर्वम्। तत्। अस्तु। ते। घृतम्। तत्। जुषस्व। यविष्ठ्य॥७३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यत्) (अग्ने) अग्निरिव वर्त्तमान (कानि) (कानि) (चित्) अपि (आ) (ते) तुभ्यं तव वा (दारुणि) काष्ठे (दध्मसि) धरामः (सर्वम्) (तत्) (अस्तु) (ते) तव (घृतम्) आज्यम् (तत्) (जुषस्व) (यविष्ठ्य) अतिशयेन युवा यविष्ठः स एव तत्सम्बुद्धौ ॥ ७३ ॥
Essence
ब्रह्मचार्यादिभिर्मनुष्यैः स्वकीयाः सर्वे पदार्थाः सर्वार्था निधातव्याः।
[यदस्माकं वस्त्वस्ति तत्सर्वं ते ऽस्तु.....]
न कदाचिदीर्ष्यया परस्परं भेत्तव्य यतः सर्वेषां सर्वाणि सुखानि वर्धेरन्, विघ्नाश्च नोत्तिष्ठेरन्,
एवं--स्त्रीपुरुषावपि परस्परं वर्तेयाताम् ॥
Subject
पुनः स्त्रीपुरुषौ प्रति सम्बन्धिनः किं किं प्रतिजानीरन्नित्याह ॥
Meaning of Anvay
हे यविष्ठ्य अतिशयेन युवा=यविष्ठः स एव तत्सम्बुद्धौ ! अग्ने=विद्वन् पते स्त्रि वा अग्निरिव वर्त्तमान ! यथा कानि कानि चित् अपि वस्तूनि ते तुभ्यं तव वा सन्ति, तद्वद्वयं दारुणि काष्ठे आ+दध्मसि धरामः। यदस्माकं वस्त्वस्ति, तत् सर्वं ते तव अस्तु । यद् अस्माकं घृतम् आज्यं तत् त्वं जुषस्व । यत् ते तव वस्त्वस्ति, तत् सर्वम् अस्माकम् अस्तु। यत् ते तव घृतादिकं वस्त्वस्ति तद्वयं गृह्णीमः ॥१९ । ७३ ॥
[हे यविष्ठ्य! अग्ने! पते स्त्रि! वा यथा कानि कानि चिद् वस्तूनि ते सन्ति, तद्वद्वयं दारुण्यादध्मसि]

हे यविष्ठ्याग्ने विद्वान् पते स्त्रि वा ! यथा कानि कानिचिद्वस्तुनि ते सन्ति तद्वद्वयं दारुण्यादध्मसि। यदस्माकं वस्त्वस्ति तत्सर्वं तेऽस्तु यदस्माकं घृतं तत्त्वं जुषस्व। यत्ते वस्त्वस्ति तत्सर्वमस्माकमस्तु। यत्ते घृतादिकं वस्त्वस्ति तद्वयं गृह्णीमः ॥ ७३ ॥
Special
जमदग्निः । अग्निः=पतिः ॥ निचृदनुष्टुप् । गान्धारः ॥