Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 72

82 Mantra
11/72
Devata- अग्निर्देवता Rishi- वारुणिर्ऋषिः Chhand- भुरिगुष्णिक् Swara- ऋषभः
Mantra with Swara
प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्वऽइ॒हाग॑हि। पु॒री॒ष्यः पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑॥७२॥

प॒र॒मस्याः॑। प॒रा॒वत॒ इति॑ परा॒ऽवतः॑। रो॒हिद॑श्व॒ इति॑ रो॒हित्ऽअ॑श्वः। इ॒ह। आ। ग॒हि॒। पु॒री॒ष्यः᳖। पु॒रु॒प्रि॒य इति॑ पुरुऽप्रि॒यः। अग्ने॑। त्वम्। त॒र॒। मृधः॑ ॥७२ ॥

Mantra without Swara
परमस्याः परावतो रोहिदश्वऽइहा गहि । पुरीष्यः पुरुप्रियोग्ने त्वन्तरा मृधः ॥

परमस्याः। परावत इति पराऽवतः। रोहिदश्व इति रोहित्ऽअश्वः। इह। आ। गहि। पुरीष्यः। पुरुप्रिय इति पुरुऽप्रियः। अग्ने। त्वम्। तर। मृधः॥७२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(परमस्याः) अनुत्तमगुणरूपशीलायाः (परावतः) दूरदेशात् (रोहिदश्वः) रोहितोऽग्न्यादयोऽश्वा=वाहनानि यस्य सः (इह) (आ) (गहि) आगच्छ (पुरीष्यः) पुरीषेषु=पालनेषु साधुः (पुरुप्रियः) पुरूणां=बहूनां जनानां मध्ये प्रियः=प्रीतः (अग्ने) अग्निप्रकाशवद्विज्ञानयुक्त (त्वम्) (तरा) उल्लंघ। अत्र द्वयचोतस्तिङ इति दीर्घः (मृधः) परपदार्थाभिकांक्षिणः शत्रून् ॥ ७२ ॥
Essence
मनुष्यैः स्वस्याः कन्यायाः पुत्रस्य वा समीपदेशे विवाहः कदाचिन्नैव कार्यः। यावद् दूरे विवाहः क्रियते तावदेवाऽधिकं सुखं जायते, निकटे कलह एव ॥ ११ । ७२ ॥
Subject
पुनः सा स्वस्वामिनं प्रति किं किमादिशेदित्याह ॥
Meaning of Anvay
हे अग्ने=पावक इव तेजस्विन् स्वामिन् अग्निप्रकाशवद्विज्ञानयुक्त! रोहिदश्वः रोहितोऽग्न्यादयोऽश्वा=वाहनानि यस्य सः, पुरीष्यः पुरीषेषु=पालनेषु साधुः पुरुप्रियः पुरूणां=बहूनां जनानां मध्ये प्रियः=प्रीतः त्वम् इह परावतः=देशात् दूरदेशात् परमस्याः अनुत्तमगुणशीलायाः कन्यायाः कीर्तिं श्रुत्वा आ+गहि आगच्छ, तया प्राप्त्या सहः मृधः परपदार्थाऽभिकांक्षिणः शत्रून् तर उल्लङ्घ ॥ ११ । ७२ ॥
[हे अग्ने !........त्वमिह परावतो देशात् परमस्याः कन्यायाः कीर्तिं श्रुत्वाऽऽगहि]

हे अग्ने पावक इव तेजस्विन् स्वामिन् ! रोहिदश्वः पुरीष्यः पुरुप्रियस्त्वमिह परावतो देशात् परमस्याः कन्याया: कीर्तिं श्रुत्वाऽऽगहि तथा प्राप्तया सह मृधस्तर ॥ ७२ ॥
Special
वारुणिः । अग्निः=पतिः॥ भुरिगुष्णिक् । ऋषभः ॥