Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 70

82 Mantra
11/70
Devata- अग्निर्देवता Rishi- सोमाहुतिर्ऋषिः Chhand- विराड्गायत्री Swara- षड्जः
Mantra with Swara
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः। सह॑सस्पु॒त्रोऽअद्भु॑तः॥७०॥

द्र्व॑न्नः इति॒ द्रुऽअ॑न्नः। स॒र्पिरा॑सुति॒रिति॑ स॒र्पिःऽआ॑सुतिः। प्र॒त्नः। होता॑। वरे॑ण्यः। सह॑सः। पु॒त्रः। अद्भु॑तः ॥७० ॥

Mantra without Swara
र्द्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस्पुत्रोऽअद्भुतः ॥

द्र्वन्नः इति द्रुऽअन्नः। सर्पिरासुतिरिति सर्पिःऽआसुतिः। प्रत्नः। होता। वरेण्यः। सहसः। पुत्रः। अद्भुतः॥७०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(द्रवन्नः) द्रवो=वृक्षादय ओषधयोऽन्नानि वा यस्य सः ((सर्पिरासुतिः) सर्पिषो=घृतादेरासुतिः सवनं यस्य सः (प्रत्नः) पुरातनः (होता) दाता गृहीता (वरेण्यः) स्वीकर्त्तुमर्हः (सहसः) बलवतः (पुत्रः) अपत्यम् (अद्भूतः) आश्चर्य्यगुणकर्मस्वभावः ॥ ७० ॥
Essence
अत्र स्वस्तये, अस्मिन्, यज्ञ, उदिहीति पदचतुष्टयं पूर्वतोऽनुवर्त्तते ।
[हे पते! सहसस्पुत्रः, द्रवन्तः, अद्भुतः, त्वं स्वस्तये....... उदिहि]
कन्यया--यस्य पिता कृतब्रह्मचर्यो बलवान् भवेद्, यः पुरुषार्थेन बहून्यन्नादीन्यर्जयितुं शक्नुयात्, पवित्रस्वभावः पुरुषो भवेत्, तेन साकं विवाहं कृत्वा; सततं सुखं भोक्तव्यम् ॥ ११ । ७० ॥
Subject
पुनः सा स्वभर्त्तारं प्रति कथं कथं संवदेतेत्याह ॥
Meaning of Anvay
हे पते ! द्रवन्नः द्रवः=वृक्षादय ओषधयोऽन्नानि वा यस्य सः, सर्पिरासुतिः सर्पिषः=घृताऽऽदेरासुतिः=सवनं यस्य सः, प्रत्नः पुरातनः होता दाता गृहीता वरेण्यः स्वीकर्तुमर्हः सहसः बलवतः पुत्रः अपत्यम् अद्भुतः आश्चर्य्यगुणकर्मस्वभावः त्वं स्वस्तये सुखाय अस्मिन् वर्त्तमाने यज्ञे संगन्तव्ये गृहाऽऽश्रमे उदिहि=उदितो भव ॥ ११ । ७० ॥
[अनुवृत्तिमाह--]
हे पते ! द्रवन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः सहसस्पुत्रोऽद्भुतः त्वं स्वस्तयेऽस्मिन् यज्ञ उद्दिहि उदितो भव ॥ ७० ॥
Meaning of Essence
सहसः=कृतब्रह्मचर्यस्य बलवतः। द्रवन्नः=यः पुरुषार्थेन बहून्यन्नादीन्यर्जयितुं शक्नुयात् सः। अद्भुतः=पवित्रस्वभावः।
Special
सोमाहुतिः। अग्निः=पतिः ॥ विराड्गायत्री । षड्जः ॥