Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 7

82 Mantra
11/7
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य। दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केत॑न्नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥७॥

देव॑। स॒वि॒त॒रिति॑ सवितः। प्र। सु॒व॒। य॒ज्ञम्। प्र। सु॒व॒। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दि॒व्यः। ग॒न्ध॒र्वः। के॒त॒पूरिति॑ केत॒ऽपूः। केत॑म्। नः॒। पु॒ना॒तु॒। वा॒चः। पतिः॑। वाच॑म्। नः॒। स्व॒द॒तु॒ ॥७ ॥

Mantra without Swara
देव सवितः प्रसुव यज्ञम्प्रसुव यज्ञपतिम्भगाय । दिव्यो गन्धर्वः केतपूः केतन्नः पुनातु वाचस्पतिर्वाचन्नः स्वदतु ॥

देव। सवितरिति सवितः। प्र। सुव। यज्ञम्। प्र। सुव। यज्ञपतिमिति यज्ञऽपतिम्। भगाय। दिव्यः। गन्धर्वः। केतपूरिति केतऽपूः। केतम्। नः। पुनातु। वाचः। पतिः। वाचम्। नः। स्वदतु॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देव) दिव्य विज्ञानप्रद (सवितः) सर्वसिद्ध्युत्पादक (प्र) (सुव) उत्पादय (यज्ञम्) सुखानां संगमकं व्यवहारम् (प्र) (सुव) (यज्ञपतिम्) एतस्य यज्ञस्य पालकम् (भगाय) अखिलैश्वर्य्याय (दिव्यः) दिवि=शुद्धगुणकर्मसु साधुः (गन्धर्वः) यो गां=पृथिवीं धरति सः (केतपूः) यः केतेन=विज्ञानेन पुनाति (केतम्) विज्ञानम् (नः) अस्माकम् (पुनातु) पवित्रीकरोतु (वाचः) सत्यविद्यान्विताया वेदवाण्याः (पतिः) प्रचारेण रक्षकः (वाचम्) वाणीम् (नः) अस्माकम् (स्वदतु) स्वदतां=स्वादिष्ठां करोतु अत्र व्यत्ययेन परस्मैपदम् ॥ ७ ॥
Essence
ये सकलैश्वर्योपपन्नं शुद्धं ब्रह्मोपासते, योगप्राप्तये प्रार्थयन्ते, तेऽखिलैश्वर्य्यं शुद्धात्मानं कर्त्तुं योगं च प्राप्तुं शक्नुवन्ति ।
[वाचस्पतिर्भवान् नो वाचं स्वदतु]
ये जगदीश्वरवाग्वत् स्ववाचं शुन्धन्ति ते सत्यवाचः सन्तः सर्वक्रियाफलान्याप्नुवन्ति ॥ ७ ॥
Subject
अथ किमर्थं परमेश्वर उपास्यः प्रार्थनीयश्चास्तीत्याह ॥
Meaning of Anvay
हे देव=सत्ययोगविद्ययोपासनीय दिव्य विज्ञानप्रद ! सवितः=भगवन् ! सर्वसिद्ध्युत्पादक ! त्वं नः अस्माकं भगाय अखिलैश्वर्य्याय यज्ञं सुखानां संगमकं व्यवहारं प्र+सुव उत्पादय, यज्ञपतिम् एतस्य यज्ञस्य पालकं प्र+सुव उत्पादय ।
गन्धर्वः यो गां=पृथिवीं धरति सः, दिव्यः दिवि=शुद्धगुणकर्मसु साधुः, केतपूः यः केतेन=विज्ञानेन पुनाति, भवान् नः=अस्माकं केतं विज्ञानं पुनातु पवित्रीकरोतु।
वाचः सत्यविद्याऽन्विताया वेदवाण्याः पतिः प्रचारेण रक्षकः भवान् नः अस्माकं वाचं वाणीं स्वदतु स्वदतां=स्वादिष्ठां करोतु ॥ ७ ॥
[हे देव ! .......सवितः ! भगवन् ! त्वं नो भगाय यज्ञं प्रसुव]
हे देव सत्ययोगविद्ययोपासनीय सवितर्भगवन् ! त्वं नो भगाय यज्ञं प्रसुव यज्ञपतिं प्रसुव । गन्धर्वो दिव्यः केतपूर्भवान्नोस्माकं केतं पुनातु वाचस्पतिर्भवान्नो वाचं स्वदतु ॥ ७ ॥
Special
प्रजापतिः। सविता=ईश्वरः ॥ आर्षी त्रिष्टुप् । धैवतः ॥