Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 69

82 Mantra
11/69
Devata- अम्बा देवता Rishi- आत्रेय ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
दृꣳह॑स्व देवि पृथिवि स्व॒स्तय॑ऽआसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑। जुष्टं॑ दे॒वेभ्य॑ऽइ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञेऽअ॒स्मिन्॥६९॥

दृꣳह॑स्व। दे॒वि॒। पृ॒थि॒वि॒। स्व॒स्तये॑। आ॒सु॒री। मा॒या। स्व॒धया॑। कृ॒ता। अ॒सि॒। जुष्ट॑म्। दे॒वेभ्यः॑। इ॒दम्। अ॒स्तु॒। ह॒व्यम्। अरि॑ष्टा। त्वम्। उत्। इ॒हि॒। य॒ज्ञे। अ॒स्मिन् ॥६९ ॥

Mantra without Swara
दृँहस्व देवि पृथिवि स्वस्तयऽआसुरी माया स्वधया कृतासि । जुष्टन्देवेभ्यऽइदमस्तु हव्यमरिष्टा त्वमुदिहि यज्ञे अस्मिन् ॥

दृꣳहस्व। देवि। पृथिवि। स्वस्तये। आसुरी। माया। स्वधया। कृता। असि। जुष्टम्। देवेभ्यः। इदम्। अस्तु। हव्यम्। अरिष्टा। त्वम्। उत्। इहि। यज्ञे। अस्मिन्॥६९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(दृंहस्व) वर्द्धस्व (देवि) विद्यायुक्ते (पृथिवि) भूमिरिव पृथुविद्ये (स्वस्तये) सुखाय (आसुरी) येऽसुषु=प्राणेषु रमन्ते तेषां स्वा (माया) प्रज्ञा (स्वधया) उदकेनान्नेन वा (कृता) निष्पादिता (असि) (जुष्टम्) सेवितम् (देवेभ्यः) विद्वद्भ्यो दिव्येभ्यो गुणेभ्यो वा (इदम्) (अस्तु) (हव्यम्) दातुं योग्यं विज्ञानम् (अरिष्टा) अहिंसिता (त्वम्) (उत्) (इहि) प्राप्नुहि (यज्ञे) संगन्तव्ये गृहाश्रमे (अस्मिन्) वर्त्तमाने ॥ ६९ ॥
Essence
या स्त्री पतिं प्राप्य गृहे वर्त्तते, तथा सुबुद्ध्या सुखाय प्रयत्नो विधेयः।
[त्वयेदं हव्यं जुष्टं कृतमस्ति]
सुसंस्कृतं सर्वमन्नादिप्रीतिकरं संपादनीयम् ।
[अरिष्टा.......अस्मिन् यज्ञ उदिहि]
न कदाचित् कस्यचिद् हिंसा वैरबुद्धिर्वा क्वचित् कार्या ॥ ११ । ६९॥
Subject
पुनः पतिः स्वपत्नीं प्रति किं किं वदेदित्याह ॥
Meaning of Anvay
हे पृथिवि भूमिरिव पृथुविद्ये ! देवि=पत्नि विद्यायुक्ते ! त्वया स्वस्तये सुखाय स्वधया उदकेनान्नेन वा या आसुरी येऽसुषु=प्राणेषु रमन्ते तेषां स्वा माया प्रज्ञा अस्ति सा कृता निष्पादिता असि, तया त्वं मां पतिं दृंहस्व वर्द्धस्व। अरिष्टा अहिंसिता सती अस्मिन् वर्त्तमाने यज्ञे संगन्तव्ये गृहाऽऽश्रमे उत्+इहि प्राप्नुहि। यत् त्वया इदं [हव्यं] दातुं योग्यं विज्ञानं जुष्टं सेवितं कृतमस्ति, तद् देवेभ्यः विद्वद्भ्यो दिव्येभ्यो गुणेभ्यो वा अस्तु ॥ ६९ ॥
[हे.......देवि !........त्वया स्वस्तये.........या........माया अस्ति सा कृता असि, तथा त्वं मां पतिं दृंहस्व]
हे पृथिवि देवि पत्नि ! त्वया स्वस्तये स्वधया याऽऽसुरी मायाऽस्ति सा कृतासि तया त्वं मां पतिं दृंहस्वाऽरिष्टा सत्यस्मिन् यज्ञ उदिहि। यत् त्वयेदं हव्यम् जुष्टं कृतमस्ति तद्देवेभ्योऽस्तु ॥ ६९ ॥
Meaning of Essence
माया=सुबुद्धिः । हव्यम्=सुसंस्कृतमन्नादि। जुष्टम्=प्रीतिकरम्। अरिष्टा=अहिंसा, अवैरबुद्धिः॥
Special
आत्रेयः । अम्बा=माता | त्रिष्टुप् । धैवतः ॥