Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 68

82 Mantra
11/68
Devata- अम्बा देवता Rishi- आत्रेय ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु। अ॒ग्निश्चे॒दं क॑रिष्यथः॥६८॥

मा। सु। भि॒त्थाः॒। मा। सु। रि॒षः॒। अम्ब॑। धृ॒ष्णु। वी॒रय॑स्व। सु। अ॒ग्निः। च॒। इ॒दम्। क॒रि॒ष्य॒थः॒ ॥६८ ॥

Mantra without Swara
मा सु भित्था मा सु रिषो म्ब धृष्णु वीरयस्व सु । अग्निश्चेदङ्करिष्यथः ॥

मा। सु। भित्थाः। मा। सु। रिषः। अम्ब। धृष्णु। वीरयस्व। सु। अग्निः। च। इदम्। करिष्यथः॥६८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) (सु) (भित्था) भेदं कुर्य्या: (मा) (सु) (रिषः) हिंस्याः (अम्ब) मातः (धृष्णु) दार्य्पम् (वीरयस्व) आरब्धस्य कर्म्मणः समाप्तिमाचर (सु) (अग्निः) पावक इव (च) (इदम्) (करिष्यथः) करिष्यमाणं साधयिष्यथः ॥ ६८ ॥
Essence
माता सुसन्तानान् सुशिक्षेत, यत इमे परस्परं प्रीता भवेयुः,
[धृष्णुः सुवीरयस्व च]
वीराश्च यत्कर्त्तव्यं तत्कुर्युरकर्त्तव्यं च नाचरेयुः ॥ ११ । ६८ ॥
Subject
पुनर्मातापितरौ प्रति पुत्रादयः किं किं ब्रूयुरित्याह॥
Meaning of Anvay
हे अम्ब मातः ! त्वमस्मान् विद्यातो मा सु+भित्थाः भेदं कुर्य्याः, मा सु+रिषः हिंस्याः, धृष्णु दार्यंणु सु+वीरयस्व आरब्धस्य कर्मणः समाप्तिमाचर च एवं कुर्वन्तौ युवां मातापितरौ अग्निः पावक इव इदं करिष्यथः करिष्यमाणं साधयिष्यथः ॥ ११ । ६८ ॥
[ हे अम्ब ! त्वमस्मान् विद्यातो मा सुभित्थाः, मा सुरिषः]
हे अम्ब ! त्वमस्मान् विद्यातो मा सु भित्था सा सुरिषो धृष्णु सुवीरयस्व चैव कुर्वन्तौ युवां मातापुत्रावग्निरिवेदं करिष्यथः ॥ ६८ ॥
Special
आत्रेयः | अम्बा=माता ॥ गायत्री । षड्जः॥