Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 67

82 Mantra
11/67
Devata- सविता देवता Rishi- आत्रेय ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम्। विश्वो॑ रा॒यऽइ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑॥६७॥

विश्वः॑। दे॒वस्य॑। ने॒तुः। मर्त्तः॑। वु॒री॒त॒। स॒ख्यम्। विश्वः॑। रा॒ये। इ॒षु॒ध्य॒ति॒। द्यु॒म्नम्। वृ॒णी॒त॒। पु॒ष्यसे॑। स्वाहा॑ ॥६७ ॥

Mantra without Swara
विश्वो देवस्य नेतुर्मर्ता वुरीत सख्यम् । विश्वो रायऽइषुध्यति द्युम्नँवृणीत पुष्यसे स्वाहा ॥

विश्वः। देवस्य। नेतुः। मर्त्तः। वुरीत। सख्यम्। विश्वः। राये। इषुध्यति। द्युम्नम्। वृणीत। पुष्यसे। स्वाहा॥६७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(विश्वः) सर्वः (देवस्य) सर्वजगत्प्रकाशकस्य परमेश्वरस्य (नेतुः) सर्वनायकस्य (मर्त्तः) मनुष्यः (वुरीत) स्वीकुर्यात् (सख्यम्) सख्युर्भावं कर्म वा (विश्वः) अखिलः (राये) श्रियै (इषुध्यति) शरादीनि शास्त्राणि धरेत्। लेट्प्रयोगोऽयम् (द्युम्नम्) प्रकाशयुक्तं यशोऽन्नं वा । द्युम्नं द्योततेर्यशोऽन्नं वा ॥ निरु० ५ । ५ ॥ (वृणीत) स्वीकुर्य्यात् (पुष्यसे) पुष्टो भवेः (स्वाहा) सत्यां वाचम् ॥ ६७ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। गृहस्थैर्मनुष्यैः परमेश्वरेण सह मैत्रीं कृत्वा,
[मनुष्यो राये इषुध्यति.......द्युम्नं वृणीत]
. सत्येन व्यवहारेण श्रियं प्राप्य यशस्वीनि कर्माणि नित्यं कार्याणि ॥ ११ । ६७ ॥
Subject
पुनर्गृहस्थैः किं कार्य्यमित्याह॥
Meaning of Anvay
यथा विद्वाँस्तथा विश्वः सर्वो मर्त्तः मनुष्यः नेतुः सर्वनायकस्य देवस्य सर्वजगत्प्रकाशकस्य परमेश्वरस्य सख्यं सख्युर्भावं कर्म वा वुरीत स्वीकुर्य्यात्, विश्वः अखिलः मनुष्यो राये श्रिये इषुध्यति शरादीनि शस्त्राणि धरेत्, स्वाहा सत्यां वाचं द्युम्नं प्रकाशयुक्तं यशोऽन्नं वा वृणीत स्वीकुर्य्यात्।
यथा चैतेन त्वं पुष्यसे पुष्टो भवेः, तथा वयमपि भवेम ॥ ११ । ६७ ॥
[यथा विद्वांस्तथा विश्वो मर्त्तो नेतुर्देवस्य सख्यं वुरीत]
यथा विद्वाँस्तथा विश्वो मर्त्तो नेतुर्देवस्य सख्यं वुरीत विश्वो मनुष्यो राय इषुध्यति। स्वाहा द्युम्नं वृणीत यथा चैतेन त्वं पुष्यसे तथा वयमपि भवेम ॥ ६७ ॥
Meaning of Essence
सख्यम्=मैत्रीम् । द्युम्नम्=यशस्वि कर्म ॥
Special
आत्रेयः । सविता=विद्वान् ॥ अनुष्टुप् । गान्धारः ॥