Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 65

82 Mantra
11/65
Devata- वस्वादयो लिङ्गोक्ता देवताः Rishi- विश्वामित्र ऋषिः Chhand- भुरिग्धृतिः Swara- षड्जः
Mantra with Swara
वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् रु॒द्रास्त्वाऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वै॑श्वान॒राऽऽआछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्॥६५॥

वस॑वः। त्वा॒। आ। छृ॒न्द॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। रु॒द्राः। त्वा॒। आ। छृ॒न्द॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। आ॒दि॒त्याः। त्वा। आ। छृ॒न्द॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। आ। छृ॒न्द॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत् ॥६५ ॥

Mantra without Swara
वसवस्त्वा च्छृन्दन्तु गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वाच्छृन्दन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वदादित्यास्त्वा च्छृन्दन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानराऽआच्छृन्दन्त्वानुष्टुभेन च्छन्दसाङ्गिरस्वत् ॥

वसवः। त्वा। आ। छृन्दन्तु। गायत्रेण। छन्दसा। अङ्गिरस्वत्। रुद्राः। त्वा। आ। छृन्दन्तु। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। आदित्याः। त्वा। आ। छृन्दन्तु। जागतेन। छन्दसा। अङ्गिरस्वत्। विश्वे। त्वा। देवाः। वैश्वानराः। आ। छृन्दन्तु। आनुष्टुभेन। आनुस्तुभेनेत्यानुऽस्तुभेन। छन्दसा। अङ्गिरस्वत्॥६५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वसवः) आदिमा विद्वांसः (त्वा) त्वां पुमांसं स्त्रियं च (आ) समन्तात् (छन्दन्तु) प्रदीप्यन्ताम् (गायत्रेण) गायन्ति सद्विद्या येन तेन वेदस्थविभक्तेन स्तोत्रेण (छन्दसा) (अङ्गिरस्वत्) अग्निवत् (रुद्राः) मध्यमा विद्वांसः (त्वा) (आ) (छृन्दन्तु) (त्रैष्टुभेन) त्रीणि कर्मोपासनाज्ञानानि स्तोभन्ते=स्थिरीकुर्वन्ति येन (छन्दसा) (अङ्गिरस्वत्) प्राणवत्, (आदित्याः) उत्तमा विपश्चितः (त्वा) (आ) (छृन्दन्तु) (जागतेन) जगद्विद्याप्रकाशकेन (छन्दसा) (अङ्गिरस्वत्) सूर्यवत् (विश्वे) सर्वे (त्वा) (देवाः) सदुपदेशप्रदातारः (वैश्वानराः) सर्वेषु नरेषु राजन्तः (आ) (छृन्दन्तु) (आनुष्टुभेन) विद्यां गृहीत्वा पश्चात् दुःखं विस्तभ्नुवन्ति येन तेन (छन्दसा) (अङ्गिरस्वत्) समस्तौषधिरसवत् ॥ ६५॥
Essence
अत्रोपमालङ्कारः॥ हे स्त्रीपुरुषौ ! युवां ये याश्च विद्वांसो विदुष्यश्च शरीरात्मबलकारकोपदेशेन सुशोभेयुस्तेषामेव सेवासङ्गौ सततं कुर्यातां; नेतरेषां क्षुद्राणाम् ॥ ११ । ६५ ॥
Subject
पुनस्तौ स्त्रीपुरुषौ प्रति विद्वांसः किं कुर्युरित्याह ॥
Meaning of Anvay
हे स्त्रि पुरुष वा ! वसवः आदिमा विद्वांसः गायत्रेण गायन्ति सद्विद्या येन तेन वेदस्थविभक्तेन स्तोत्रेण, छन्दसा यां यं त्वा त्वां पुमांसं स्त्रियं च अङ्गिरस्वत् अग्निवद् आ+छृन्दन्तु समन्तात् प्रदीप्यन्ताम्। रुद्राः मध्यमा विद्वांसः त्रैष्टुभेन त्रीणि कर्मोपासनाज्ञानानि स्तोभन्ते=स्थिरीकुर्वन्ति येन छन्दसा त्वा अङ्गिरस्वत् प्राणवद् आ+छृन्दन्तु समन्तात् प्रदीप्यन्ताम्। आदित्याः उत्तमा विपश्चितः जागतेन जगद्विद्याप्रकाशकेन छन्दसा त्वा अङ्गिरस्वत् सूर्य्यवद् आ+छृन्दन्तु समन्तात् प्रदीप्यन्ताम् । वैश्वानराः सर्वेषु नरेषु राजन्तः विश्वे सर्वे देवाः सदुपदेशप्रदातारः आनुष्टुभेन विद्यां गृहीत्वा पश्चाद् दुःखं विस्तभ्नुवन्ति येन तेन, छन्दसा त्वा अङ्गिरस्वत् समस्तौषधिरसवद् आ+छृन्दन्तु समन्तात् प्रदीप्यन्ताम् ॥ ६५ ॥
[ हे पुरुष ! स्त्रि ! वा वसवः...... त्वा......आछृन्दन्तु]
हे स्त्रि पुरुष वा ! वसवो गायत्रेण छन्दसा यां यं त्वाऽङ्गिरस्वदाछृन्दन्तु रुद्रास्त्रैष्टुभेन छन्दसा त्वाऽङ्गिरस्वदाछृन्दन्तु। आदित्या जागतेन छन्दसा त्वाऽङ्गिरस्वदाछृन्दन्तु। वैश्वानरा विश्वेदेवा आनुष्टुभेन छन्दसा त्वाऽङ्गिरस्वदाछृन्दन्तु ॥ ६५ ॥
Special
विश्वामित्रः । वस्वादयो लिङ्गोक्ताः=आदिमविद्वदादयः ॥ धृतिः । षड्जः॥