Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 64

82 Mantra
11/64
Devata- मित्रो देवता Rishi- विश्वामित्र ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम्। मित्रै॒तां त॑ऽउ॒खां परि॑ ददा॒म्यभि॑त्याऽए॒षा मा भे॑दि॥६४॥

उ॒त्थाय॑। बृ॒ह॒ती। भ॒व॒। उत्। ऊँ॒ इत्यूँ॑। ति॒ष्ठ॒। ध्रु॒वा। त्वम्। मित्र॑। ए॒ताम्। ते॒। उ॒खाम्। परि॑। द॒दा॒मि॒। अभि॑त्यै। ए॒षा। मा। भे॒दि॒ ॥६४ ॥

Mantra without Swara
उत्थाय बृहती भवोदु तिष्ठ धु्रवा त्वम् । मित्रैतान्त उखाम्परिददाम्यभित्त्याऽएषा मा भेदि ॥

उत्थाय। बृहती। भव। उत्। ऊँ इत्यूँ। तिष्ठ। ध्रुवा। त्वम्। मित्र। एताम्। ते। उखाम्। परि। ददामि। अभित्यै। एषा। मा। भेदि॥६४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उत्थाय) आलस्यं विहाय (बृहती) महापुरुषार्थयुक्ता (भव) (उत्) (उ) (तिष्ठ) (ध्रुवा) मङ्गलकार्येषु कृतनिश्चया (त्वम्) (मित्र) सुहृद् (एताम्) (ते) तुभ्यम् (उखाम्) प्राप्तव्यां कन्याम् (परि) सर्वतः (ददामि) (अभित्यै) भयराहित्याय (एषा) प्रत्यक्षप्राप्ता पत्नी (मा) निषेवे (भेदि) भिद्यताम् ॥ ६४ ॥
Essence
कन्या वरश्च स्वप्रियं पुरुषं, स्वकान्तां कन्यां च स्वयं परीक्ष्य स्वीकर्तुमिच्छेत्।
यदा द्वयोर्विवाहकरणे निश्चयः स्यात् तदैव माता-पितृ-आचार्यादय एतयोर्विवाहं कुर्युः।
एतौ परस्परं भेदभावं व्यभिचारं च कदाचिन्न कुर्याताम्। किन्तु स्वस्त्रीव्रतः पुमान्, स्वपतिव्रता स्त्री च संगतौ स्याताम् ॥ ११ । ६४ ॥
Subject
पुनः सा कीदृशीत्युपदिश्यते ॥
Meaning of Anvay
हे विदुषि कन्ये! त्वं ध्रुवा मङ्गलकार्येषु कृतनिश्चया बृहती महापुरुषार्थयुक्ता भव, विवाहाय उत्+तिष्ठ। उत्थाय आलस्यं विहाय एतं पतिं स्वीकुरु ।
हे मित्र सुहृद् । ते तुभ्यम् एताम् उखां प्राप्तव्यां कन्याम् अभित्यै भयराहित्याय परि+ददामि सर्वतो ददामि। उ त्वया एषा प्रत्यक्षप्राप्ता पत्नी मा न भेदि भिद्यताम् ॥ ६४ ॥
[हे विदुषि कन्ये ! त्वं.......विवाहायोत्तिष्ठ, उत्थायैतं पतिं स्वीकुरु। हे मित्र! त एतामुखां........परिददामि त्वयैषा मा भेदि]
हे विदुषि कन्ये ! त्वं ध्रुवा बृहती भव विवाहायोत्तिष्ठ । उत्थायैतं पतिं स्वीकुरु । हे मित्र ! त एतामुखामभित्यै परिददामि । उत्वयैषा मा भेदि ॥ ६४ ॥
Special
विश्वामित्रः। उखा=कन्या । अनुष्टुप् । गांधारः॥