Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 63

82 Mantra
11/63
Devata- सविता देवता Rishi- विश्वामित्र ऋषिः Chhand- भुरिग्बृहती बृहती Swara- मध्यमः
Mantra with Swara
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑। अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ऽआपृ॑ण॥६३॥

दे॒वः। त्वा॒। स॒वि॒ता। उत्। व॒प॒तु॒। सु॒पा॒णिरिति॑ सुऽपा॒णिः। स्व॑ङ्गु॒रिरिति॑ सुऽअङ्गु॒रिः। सु॒बा॒हुरिति॑ सुऽबा॒हुः। उ॒त। शक्त्या॑। अव्य॑थमाना। पृ॒थि॒व्याम्। आशाः॑। दिशः॑। आ। पृ॒ण॒ ॥६३ ॥

Mantra without Swara
देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्या । अव्यथमाना पृथिव्यामाशा दिश आ पृण ॥

देवः। त्वा। सविता। उत्। वपतु। सुपाणिरिति सुऽपाणिः। स्वङ्गुरिरिति सुऽअङ्गुरिः। सुबाहुरिति सुऽबाहुः। उत। शक्त्या। अव्यथमाना। पृथिव्याम्। आशाः। दिशः। आ। पृण॥६३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवः) दिव्यगुणकर्मस्वभावः पतिः (त्वा) त्वाम् (सविता) सूर्य इवैश्वर्य्यप्रदः (उत्) उत्कृष्टतया (वपतु) बीजवत् संतनोतु (सुपाणिः) प्रशस्तहस्तः (स्वङ्गुरिः) शोभना अङ्गुलयो यस्य सः। (सुबाहुः) शोभनभुजः (उत) अपि (शक्त्या) सामर्थ्येन सह वर्तमानो वर्त्तमाना वा (अव्यथमाना) अभीताऽचलिता सती (पृथिव्याम्) पृथिवीस्थायाम् (आशाः) इच्छाः (दिशः) काष्ठाः (आ) (पृण:) पिपूर्द्धि ॥ ६३ ॥
Essence
स्त्रीपुरुषौ परस्परं प्रीतौ हृद्यौ सुपरीक्षितौ स्वेच्छया स्वयंवरं विवाहं कृत्वाऽति विषयासक्तिं विहाय ऋतुगामिनी सन्तौ सामर्थ्यहानिं कदाचिन्न कुर्याताम् ।
[जितेन्द्रियस्तुतिमाह--]
नहि जितेन्द्रिययोः स्त्रीपुरुषयो रोगप्रादुर्भावो बलहानिश्च जायते, तस्मादेतदनुतिष्ठेताम् ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे स्त्रि ! सुबाहुः शोभनभुजः सुपाणिः प्रशस्तहस्तः स्वङ्गुरिः शोभना अङ्गुलयो यस्य सः, सविता सूर्य्य इवैश्वर्य्यप्रदः इव देवः=पतिः दिव्यगुणकर्मस्वभावः पतिः शक्त्या सामर्थ्येन सह वर्त्तमानो पृथिव्यां पृथिवीस्थायां त्वा त्वाम् उत्+वपतु उत्कृष्टतया बीजवत् संतनोतु [उत्] अपि शक्त्या सामर्थ्येन सह वर्त्तमाना अव्यथमाना अभीताऽचलिता सती त्वं पत्युः सेवनेन स्वकीया आशाः इच्छा:, यशसा दिशः काष्ठाः च आ+पृण पिपूर्द्धि ॥ ६३ ॥
[हे स्त्रि !.......देवः=पतिः शक्त्या पृथिव्यां त्वा मुद्वपतु]
हे स्त्रि ! सुबाहुः सुपाणिः स्वङ्गुरिः सवितेव देवः पतिः शक्त्या पृथिव्यां त्वोद्वपतु शक्त्याऽव्यथमाना सती त्वं पत्युः सेवनेन स्वकीया आशा यशसा दिशश्च आपृण ॥ ६३ ॥
Special
विश्वामित्रः । सविता=पतिः ॥ भुरिग्बृहती । मध्यमः ॥