Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 61

82 Mantra
11/61
Devata- आदित्यादयो लिङ्गोक्ता देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- भुरिक्कृतिः, निचृत् प्रकृतिः Swara- निषादः, धैवतः
Mantra with Swara
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् ख॑नत्ववट दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद् द॑धतूखे धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वद॒भीन्धतामुखे॒ वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे॒ जन॑य॒स्त्वाऽछि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ऽअङ्गिर॒स्वत् प॑चन्तूखे॥६१॥

अदि॑तिः। त्वा॒। दे॒वी। वि॒श्वदे॑व्यावती। वि॒श्वदे॑व्यव॒तीति॑ वि॒श्वदे॑व्यऽवती। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। ख॒न॒तु॒। अ॒व॒ट॒। दे॒वाना॑म्। त्वा॒। पत्नीः॑। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। द॒ध॒तु॒। उ॒खे॒। धि॒षणाः॑। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। अ॒भि। इ॒न्ध॒ता॒म्। उ॒खे॒। वरू॑त्रीः। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। श्र॒प॒य॒न्तु॒। उ॒खे॒। ग्नाः। त्वा॒। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे। अ॒ङ्गि॒र॒स्वत्। प॒च॒न्तु॒। उ॒खे॒। जन॑यः। त्वा॒। अच्छि॑न्नपत्रा॒ इत्यच्छि॑न्नऽपत्राः। दे॒वीः। वि॒श्वदे॑व्यावतीः। वि॒श्वदे॑व्यवती॒रिति॑ वि॒श्वदे॑व्यऽवतीः। पृ॒थि॒व्याः। स॒धस्थ॒ इति॑ स॒धऽस्थे॑। अ॒ङ्गि॒र॒स्वत्। प॒च॒न्तु॒। उ॒खे॒ ॥६१ ॥

Mantra without Swara
अदितिष्ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थेऽअङ्गिरस्वत्खनत्ववट देवानाम्त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वद्दधतूखे धिषणास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वदभीन्धतामुखे वरूत्रीष्ट्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वच्छ्रपयन्तूखे ग्नास्त्वा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वत्पचन्तूखे जनयस्त्वाच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वत्पचन्तूखे ॥

अदितिः। त्वा। देवी। विश्वदेव्यावती। विश्वदेव्यवतीति विश्वदेव्यऽवती। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। खनतु। अवट। देवानाम्। त्वा। पत्नीः। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। दधतु। उखे। धिषणाः। त्वा। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। अभि। इन्धताम्। उखे। वरूत्रीः। त्वा। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। श्रपयन्तु। उखे। ग्नाः। त्वा। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत। पचन्तु। उखे। जनयः। त्वा। अच्छिन्नपत्रा इत्याच्िछन्नऽपत्राः। देवीः। विश्वदेव्यावतीः। विश्वदेव्यवतीरिति विश्वदेव्यऽवतीः। पृथिव्याः। सधस्थ इति सधऽस्थे। अङ्गिरस्वत्। पचन्तु। उखे॥६१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अदितिः) अध्यापिका (त्वा) त्वाम् (देवी) विदुषी (विश्वदेव्यावती) विश्वेषु देवेषु=विद्वत्सु भवं विज्ञानं प्रशस्तं विद्यते यस्यां सा। अत्र सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ अ० ६ । ३ । १३१ ॥ इति दीर्घत्वम् (पृथिव्याः) भूमेः (सधस्थे) सहस्थाने (अङ्गिरस्वत्) अग्निवत् (खनतु) भूमिं खनित्वा कूपजलवद्विद्यायुक्तान्निष्पादयतु (अवट) अपरिभाषितानिन्दित (देवानाम्) विदुषाम् (त्वा) (पत्नीः) स्री: (देवीः) विदुषी: (विश्वदेव्यावतीः) (पृथिव्याः) (सधस्थे) (अङ्गिरस्वत्) प्राणवत् (दधतु) (उखे) ज्ञानयुक्ते (धिषणाः) प्रशंसितवाग्युक्ता धियः (त्वा) (देवी:) विद्यायुक्ताः (विश्वदेव्यावतीः) (पृथिव्याः) (सधस्थे) (अङ्गिरस्वत्) (अभि) आभिमुख्ये (इन्धताम्) प्रदीपयन्तु (उखे) विज्ञानमिच्छुके, (वरूत्री:) वराः (त्वा) (देवीः) कमनीयाः (विश्वदेव्यावतीः) (पृथिव्याः) (सधस्थे) (अङ्गिरस्वत्) आदित्यवत् (श्रपयन्तु) पाचयन्तु (उखे) अन्नाधारा स्थालीव विद्याधारे, (ग्नाः) वेदवाचः। ग्ना इति वाङ्नामसु ॥ निघं० १ । ११ ॥ (त्वा) (देवी:) दिव्यविद्यासम्पन्नाः (विश्वदेव्यावतीः) (पृथिव्याः) अन्तरिक्षस्य (सधस्थे) (अङ्गिरस्वत्) विद्युद्वत् (पचन्तु) परिपक्वां कुर्वन्तु (उखे) ज्ञानयुक्ते, (जनयः) शुभगुणैः प्रसिद्धाः (त्वा) (अच्छिन्नपत्राः) अखण्डितानि पत्राणि=वस्त्राणि यानानि वा यासां ताः (देवीः) दिव्यगुणप्रदाः (विश्वदेव्यावतीः) (पृथिव्याः) (सधस्थे) (अङ्गिरस्वत्) ओषधिरसवत् (पचन्तु) (उखे) जिज्ञासो ॥ ६१॥
Essence
माता-पितृ-आचार्य-अतिथियो यथा चतुराः पाचकाः स्थाल्यादिष्वन्नादीनि संस्कृत्योत्तमानि संपादयन्ति तथैव बाल्यावस्थामारभ्य विवाहात् पूर्वं कुमाराः कुमार्यश्चात्युत्तमा भावयन्तु ॥ ११ । ६१ ॥ ,
Subject
विदुष्यः स्त्रियः कन्याः सुशिक्ष्य धार्मिकीर्विदुषीः कृत्वैहिकपारलौकिकसुखे प्रापयेयुरित्याह ॥
Meaning of Anvay
हे अवट=शिशो अपरिभाषिताऽनिन्दित! विश्वदेव्यावतीः विश्वेषु देवेषु=विद्वत्सु भवं विज्ञानं प्रशस्तं विद्यते यस्यां सा, अदितिः अध्यापिका देवी विदुषी पृथिव्याः भूमेः सधस्थे सहस्थाने त्वा त्वाम् अङ्गिरस्वत् अग्निवत् खनतु भूमिं खनित्वा कूपजलवद्विद्यायुक्तान्निष्पादयतु।
हे उखे=कन्ये ज्ञानयुक्ते ! देवानां विदुषां पत्नीः स्त्रीः विश्वदेव्यावतीः देवीः विदुषीः पृथिव्याः सधस्थे त्वा अङ्गिरस्वत् प्राणवद् दधतु ।
हे उखे विज्ञानमिच्छुके! विश्वदेव्यावती: धिषणाः प्रशंसितवाग्युक्ता धियः देवीः विद्यायुक्ताः पृथिव्याः सधस्थे त्वा अङ्गिरस्वद् अभि+इन्धताम् अभिमुखं प्रदीपयन्तु।
हे उखे अन्नाधारा स्थालीव विद्याधारे! विश्वदेव्यावती: वरूत्रीः वरा देवी: कमनीयाः पृथिव्याः सधस्थे त्वा अङ्गिरस्वत् आदित्यवत् श्रपयन्तु पाचयन्तु।
हे उखे ज्ञानयुक्ते ! विश्वदेव्यावतीः देवीः दिव्यविद्यासम्पन्नाः ग्नाः वेदवाचः पृथिव्याः अन्तरिक्षस्य सधस्थे त्वा अङ्गिरस्वत् विद्युद्वत् पचन्तु परिपक्वां कुर्वन्तु।
हे उखे जिज्ञासो ! विश्वदेव्यावतीः अच्छिन्नपत्राः अखण्डितानि पत्राणि=वस्त्राणि यानानि वा यासां ताः, जनयः शुभगुणैः प्रसिद्धाः देवीः दिव्यगुणप्रदा: पृथिव्याः सधस्थे त्वा अङ्गिरस्वत् ओषधिरसवत् पचन्तु परिपक्वां कुर्वन्तु ।
हे उखे जिज्ञासो! त्वमेताभ्यः सर्वाभ्यो ब्रह्मचर्य्येण विद्यां गृहाण ॥ ६१॥
[हे अवट! = शिशो ! विश्वदेव्यावतीरदितिदेवी......त्वा......खनतु, हे उखे ! देवानां पत्नीर्विश्वदेव्यावतीर्देवी... त्वा......दधतु श्रपयन्तु]
हे अवट शिशो ! विश्वदेव्यावत्यदितिर्देवी पृथिव्याः सधस्थे त्वाङ्गिरस्वत्खनतु। हे उखे कन्ये ! देवानां पत्नीर्विश्वदेव्यावतीर्देवीः पृथिव्याः सधस्थे त्वाङ्गिरस्वद्दधनु। हे उखे! विश्वदेव्यावतीर्धिषणा देवीः पृथिव्याः सधस्थे त्वाङ्गिरस्वदभीन्धताम्। हे उखे ! विश्वदेव्यावतीर्वरूत्रीर्देवी: पृथिव्याः सधस्थे त्वाङ्गिरस्वछ्रपयन्तु। हे उखे ! विश्वदेव्यावतीर्देवीर्ग्नाः पृथिव्याः सधस्थे त्वाङ्गिरस्वत् पचन्तु। हे उखे! विश्वदेव्यावतीरच्छिन्नपत्रा जनयो देवी: पृथिव्याः सधस्थे त्वाङ्गिरस्वत् पचन्तु । हे उखे ! त्वमेताभ्यः सर्वाभ्यो ब्रह्मचर्येण विद्यां गृहाण ॥ ६१ ॥
Special
सिन्धुद्वीपः । अदित्यादयो लिङ्गोक्ताः=अध्यापिकादया। भुरिक्कृतिः। निषादः। उखेवरुत्रीत्युत्तरस्य प्रकृतिः। धैवतः॥