Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 59

82 Mantra
11/59
Devata- अदितिर्देवता Rishi- सिन्धुद्वीप ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु। कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑। पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑॥५९॥

अदि॑त्यै। रास्ना॑। अ॒सि॒। अदि॑तिः। ते॒। बिल॑म्। गृ॒भ्णा॒तु॒। कृ॒त्वाय॑। सा। म॒हीम्। उ॒खाम्। मृ॒न्मयी॒मिति॑ मृ॒त्ऽमयी॑म्। योनि॑म्। अ॒ग्नये॑। पु॒त्रेभ्यः॑। प्र। अ॒य॒च्छ॒त्। अदि॑तिः। श्र॒पया॑न्। इति॑ ॥५९ ॥

Mantra without Swara
अदित्यै राम्नासिस्यदितिष्टे बिलङ्गृभ्णातु । कृत्वाय सा महीमुखाम्मृन्मयीँयोनिमग्नये । पुत्रेभ्यः प्रायच्छददितिः श्रपयानिति ॥

अदित्यै। रास्ना। असि। अदितिः। ते। बिलम्। गृभ्णातु। कृत्वाय। सा। महीम्। उखाम्। मृन्मयीमिति मृत्ऽमयीम्। योनिम्। अग्नये। पुत्रेभ्यः। प्र। अयच्छत्। अदितिः। श्रपयान्। इति॥५९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अदित्यै) दिवे=विद्याप्रकाशाय (रास्ना) दात्री (असि) (अदितिः) पुत्रः पुत्री च (ते) तव सकाशात् (बिलम्) भरणं धारणम्। बिलं भरं भवति बिभर्तेः । निरु० २ । १७ ॥ (गृभ्णातु) गृह्णातु (कृत्वाय) (सा) (महीम्) महतीम् (उखाम्) पाकस्थालीम् (मृन्मयीम्) मृद्विकाराम् (योनिम्) मिश्रिताम् (अग्नये) अग्निसम्बन्धे स्थापनाय (पुत्रेभ्यः) सन्तानेभ्यः (प्र) (अयच्छत्) दद्यात् (अदितिः) माता (श्रपयान्) श्रपयन्तु=परिपाचयन्तु (इति) अनेन प्रकारेण ॥ ५९ ॥
Essence
कुमाराः पुरुषशालां कुमार्यश्च स्त्रीशालां गत्वा ब्रह्मचर्यं विधाय सुशीलतया विद्याः पाकविधिं च गृह्णीयुः। आहार-विहारानपि सुनियमेन सेवयेयुः।
[ ब्रह्मचारिकर्त्तव्यमाह--]
न कदाचिद् विषयकथां शृणुयुः, मद्यमांसालस्यातिनिद्रां विहायाध्यापकसेवानुकूलताभ्यां वर्त्तित्वा सुव्रतानि धरेयुः ॥ ११ । ५९ ॥
Subject
पुनस्तमेव विषयमाह॥
Meaning of Anvay
हे अध्यापिके विदुषि! यतस्त्वम् अदित्यै दिवे=विद्याप्रकाशाय रास्ना दात्री असि, तस्मात् ते=तव सकाशाद् बिलं=ब्रह्मचर्य्यधारणं भरणं धारणं कृत्वाय अदितिः=विद्या पुत्रः पुत्री च गृभ्णातु गृह्णातु, सा अदितिः माता भवती मृन्मयीं मृद्विकारां योनिं मिश्रितां महीं महतीम् उखां पाकस्थालीम् अग्नये अग्निसम्बन्धे स्थापनाय पुत्रेभ्यः सन्तानेभ्यः च प्र+अयच्छत् दद्यात् । विद्यासुशिक्षाभ्यां युक्ता भूत्वा उखां पाकस्थालीम् इति अनेन प्रकारेण श्रपयान्=अन्नादिपाकं कुर्वन्तु श्रपयन्तु=परिपाचयन्तु ॥
[हे अध्यापिके विदुषि ! यतस्त्वमदित्यै रास्नाऽसि, तस्मात्ते तव सकाशाद् बिलं......कृत्वायादितिर्गृह्णातु, उखामिति श्रपयान्]
हे अध्यापिके विदुषि ! यतस्त्वमदित्यै रास्नासि तस्मात्ते तव सकाशाद् बिलं ब्रह्मचर्य्यधारणं कृत्वायादितिर्विद्या गृभ्णातु साऽदितिर्भवती मृन्मयीं योनिं महीमुखामग्नये पुत्रेभ्यश्च प्रायच्छत्। विद्यासुशिक्षाभ्यां युक्ता भूत्वोखामिति श्रपयानन्नादिपाकं कुर्वन्तु ॥ ५९ ॥
Special
सिन्धुद्वीप: । अदितिः=विद्याप्रकाशः॥ आर्षी त्रिष्टुप् । धैवतः ॥