Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 58

82 Mantra
11/58
Devata- वसुरुद्रादित्यविश्वेदेवा देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- पूर्वाद्धस्य स्वराट्संकृतिः, उत्तरार्धस्याभिकृतिः Swara- गान्धारः, ऋषभः
Mantra with Swara
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॑ पृथि॒व्यसि धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्य॑ꣳ सजा॒तान् यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वास्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्य॑ꣳ सजा॒तान् यज॑मानायाऽऽदि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॒ द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्य॑ꣳ सजा॒तान् यज॑मानाय विश्वे॑ त्वा दे॒वाः वैश्वा॑न॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद् ध्रु॒वासि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्य॑ꣳ सजा॒तान् यज॑मानाय॥५८॥

वस॑वः। त्वा॒। कृ॒ण्व॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। पृ॒थि॒वी। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य्य॒मिति॑ सु॒ऽवीर्य्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। रु॒द्राः। त्वा॒। कृ॒ण्व॒न्तु। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। अ॒न्तरि॑क्षम्। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य्य॒मिति॑ सु॒ऽवीर्य्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। आ॒दि॒त्याः। त्वा॒। कृ॒ण्व॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। द्यौः। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य॒मिति॑ सु॒वीर्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। कृ॒ण्व॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। ध्रु॒वा। अ॒सि॒। दिशः॑। अ॒सि॒। धा॒रय॑। मयि॑। प्र॒जामिति॑ प्र॒ऽजाम्। रा॒यः। पोष॑म्। गौ॒प॒त्यम्। सु॒वीर्य॒मिति॑ सु॒ऽवीर्य॑म्। स॒जा॒तानिति॑ सऽजा॒तान्। यज॑मानाय ॥५८ ॥

Mantra without Swara
वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसाङ्गिरस्वद्धरुवासि पृथिव्यसि धारया मयि प्रजाँ रायस्पोषङ्गौपत्यँ सुवीर्यँ सजातान्यजमानाय रुद्रास्त्वा कृण्वन्तु त्रैष्टुभेन च्छन्दसाङ्गिरस्वद्धरुवास्यन्तरिक्षमसि धारया मयि प्रजाँ रायस्पोषङ्गौपत्यँ सुवीर्यँ सजातान्यजमानायादित्यास्त्वा कृण्वन्तु जागतेन च्छन्दसाङ्गिरस्वद्धरुवासि द्यौरसि धारया मयि प्रजाँ रायस्पोषङ्गौपत्यँ सुवीर्यँ सजातान्यजमानाय विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वद्धरुवासि दिशोसि धारया मयि प्रजाँ रायस्पोषङ्गौपत्यँ सुवीर्यँ सजातान्यजमानाय ॥

वसवः। त्वा। कृण्वन्तु। गायत्रेण। छन्दसा। अङ्गिरस्वत्। ध्रुवा। असि। पृथिवी। असि। धारय। मयि। प्रजामिति प्रऽजाम्। रायः। पोषम्। गौपत्यम्। सुवीर्य्यमिति सुऽवीर्य्यम्। सजातानिति सऽजातान्। यजमानाय। रुद्राः। त्वा। कृण्वन्तु। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। ध्रुवा। असि। अन्तरिक्षम्। असि। धारय। मयि। प्रजामिति प्रऽजाम्। रायः। पोषम्। गौपत्यम्। सुवीर्य्यमिति सुऽवीर्य्यम्। सजातानिति सऽजातान्। यजमानाय। आदित्याः। त्वा। कृण्वन्तु। जागतेन। छन्दसा। अङ्गिरस्वत्। ध्रुवा। असि। द्यौः। असि। धारय। मयि। प्रजामिति प्रऽजाम्। रायः। पोषम्। गौपत्यम्। सुवीर्यमिति सुवीर्यम्। सजातानिति सऽजातान्। यजमानाय। विश्वे। त्वा। देवाः। वैश्वानराः। कृण्वन्तु। आनुष्टुभेन। आनुस्तुभेनेत्यानुऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। ध्रुवा। असि। दिशः। असि। धारय। मयि। प्रजामिति प्रऽजाम्। रायः। पोषम्। गौपत्यम्। सुवीर्यमिति सुऽवीर्यम्। सजातानिति सऽजातान्। यजमानाय॥५८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वसवः) वसुसंज्ञका विद्वांसः (त्वा) त्वाम् (कृण्वन्तु) (गायत्रेण) वेदविहितेन (छन्दसा) (अङ्गिरस्वत्) धनञ्जयप्राणवत् (ध्रुवा) निश्चला (असि) (पृथिवी) पृथुसुखकारिणी (असि) (धारय) (स्थापय) अत्रान्येषामपीति दीर्घः (मयि) त्वत्प्रीतायां पत्न्याम् (प्रजाम्) सुसन्तानम् (रायः) धनस्य (पोषम्) पुष्टिम् (गौपत्यम्) गोर्धेनोः पृथिव्या वाचो वा पतिस्तस्य भावम् (सुवीर्य्यम्) शोभनं च तद्वीर्य्यं च तत् (सजातान्) समानात्प्रादुर्भावादुत्पन्नान् (यजमानाय) विद्यासंगमयित्र आचार्य्याय (रुद्राः) रुद्रसंज्ञका विद्वांसः (त्वा) (कृण्वन्तु) (त्रैष्टुभेन) (छन्दसा) (अङ्गिरस्वत्) आकाशवत् (ध्रुवा) अक्षुब्धा (असि) (अन्तरिक्षम्) अक्षयप्रेमयुक्ता (असि) (धारस्य) (मयि) (प्रजाम्) सत्यबलधर्मयुक्ताम् (रायः) राजश्रियः (पोषम्) (गौपत्यम्) अध्यापकत्वम् (सुवीर्य्यम्) सुष्ठुपराक्रमम् (सजातान्) (यजमानाय) साङ्गोपाङ्गवेदाध्यापकाय (आदित्याः) पूर्णविद्याबलप्राप्त्या विपश्चितः (त्वा) (कृण्वन्तु) (जागतेन) (छन्दसा) (अङ्गिरस्वत्) (ध्रुवा) निष्कम्पा (असि) (द्यौः) सूर्य्य इव वर्त्तमानः (असि) (धारय) (मयि) (प्रजाम्) सुप्रजाताम् (रायः) चक्रवर्त्तिराज्यलक्ष्म्याः (पोषम्) (गौपत्यम्) सकलविद्याधिस्वामित्वम् (सुवीर्य्यम्) (सजातान्) (यजमानाय) क्रियाकौशलसहितानां सर्वासां विद्यानां प्रवक्ते (विश्वे) सर्वे (त्वा) (देवाः) उपदेशका विद्वांसः (वैश्वानराः) ये विश्वेषु नायकेषु राजन्ते (कृण्वन्तु) (आनुष्टुभेन) (छन्दसा) (अङ्गिरस्वत्) सूत्रात्मप्राणवत् (ध्रुवा) सुस्थिरा (असि) (दिशः) सर्वासु दिक्षु व्याप्तकीर्त्तिः (असि) (धारय) (मयि) (प्रजाम्) (रायः) समग्रैश्वर्य्यस्य (पोषम्) (गौपत्यम्) वाक्चातुर्य्यम् (सुवीर्य्यम्) (सजातान्) (यजमानाय) सत्योपदेशकाय ॥ ५८ ॥
Essence
यदा स्त्रीपुरुषौ परस्परं परीक्षां कृत्वाऽन्योऽन्यं दृढप्रीतौ स्याताम् तदा वेदविधिना यज्ञं प्रतत्य वेदोक्तनियमान् स्वीकृत्य विवाहं विधाय—
[स त्वं मयि प्रजां........धारय, आवां सजातान्..........विद्याग्रहणार्थं समर्पयेव]
सन्तानानुत्पाद्य, यावदष्टवार्षिकाः पुत्राः पुत्र्यश्च भवेयुस्तावन्मातापितरौ तान् सुशिक्षेयाताम्, अत ऊर्ध्वं ब्रह्मचर्यं ग्राहयित्वा विद्याध्ययनाय स्वगृहादतिदूरे आप्तानां विदुषां विदुषीणां च पाठशालासु प्रेषयेताम्।
[विद्यादानगौरवमाह--]
अत्र यावतो धनस्य व्ययः कर्त्तुं योग्योऽस्ति तावन्तं कुर्याताम्, न हि सन्तानानां विद्यादानमन्तरा कश्चिदुपकारो धर्मश्चास्ति। तस्मादेतत् सततं समाचरेताम् ॥ ११ । ५८ ॥
Subject
पुनर्दम्पती किङ्कृत्वा किङ्कुर्य्यातामित्युपदिश्यते॥
Meaning of Anvay
हे ब्रह्मचारिणि कुमारिके! या त्वम् अङ्गिरस्वत् धनञ्जयप्राणवद् ध्रुवा निश्चला असि, पृथिवी पृथुसुखकारिणी असि, तां त्वा त्वां गायत्रेण वेदविहितेन छन्दसा वसवः वसुसंज्ञका विद्वांसः मम स्त्रियं कृण्वन्तु।
हे कुमार ब्रह्मचारिन् ! यस्त्वम् अङ्गिरस्वत् धनञ्जयप्राणवद् ध्रुवः निश्चलः असि, भूमिवत् क्षमावान् असि यं त्वा त्वां वसवः वसुसंज्ञका विद्वांसः गायत्रेण वेदविहितेन छन्दसा मम पतिं कृण्वन्तु, स त्वं मयि त्वत्प्रीतायां पत्न्यां प्रजां सुसन्तानं रायः धनस्य पोषं पुष्टिं गौपत्यं गोर्धेनोः पृथिव्या वाचो वा पतिस्तस्य भावं, सुवीर्य्यं शोभनं च तद्वीर्यं च तत् च धारय स्थापय। आवां सजातान्=सन्तानान् समानात् प्रादुर्भावादुत्पन्नान् सर्वान् यजमानाय विद्यासंगमयित्र आचार्य्याय विद्याग्रहणार्थं समर्पयेव ।
हे स्त्रि ! या त्वम् अङ्गिरस्वत् आकाशवद् ध्रुवा अक्षुब्धा असि, अन्तरिक्षम् अक्षयप्रेमयुक्ता असि, तां त्वा रुद्राः रुद्रसंज्ञका विद्वांसः त्रैष्टुभेन छन्दसा मम पत्नीं कृण्वन्तु।
हे वीर ! यस्त्वम् अङ्गिरस्वत् आकाशवद् ध्रुवः अक्षुब्धः असि, अन्तरिक्षम् अक्षयप्रेमयुक्तः असि यं त्वा रुद्राः रुद्रसंज्ञका विद्वांसः त्रैष्टुभेन छन्दसा मम स्वामिनं कृण्वन्तु, स त्वं मयि प्रजां सत्यबलधर्मयुक्तां रायः राजश्रियः पोषं गौपत्यम् अध्यापकत्वं सुवीर्य्यं सुष्ठुपराक्रमं च धारय। आवां सजातान्=सन्तानान् सुशिक्ष्य वेदशिक्षाऽध्ययनाय यजमानाय साङ्गोपाङ्गवेदाऽध्यापकाय प्रदद्याव।
हे विदुषि ! या त्वम् अङ्गिरस्वत् ध्रुवा निष्कम्पा असि, द्यौः सूर्य इव वर्त्तमाना असि, तां त्वा आदित्याः पूर्णविद्याबलप्राप्त्या विपश्चितः जागतेन छन्दसा मम भार्य्यां कृण्वन्तु।
हे विद्वन् ! यस्त्वम् अङ्गिरस्वत् ध्रुवः निष्कम्पः असि, द्यौः सूर्य इव वर्त्तमानः असि, यं त्वा आदित्याः पूर्णविद्याबलप्राप्त्या विपश्चितः जागतेन छन्दसा ममाधिष्ठातारं कृण्वन्तु, स त्वं मयि प्रजां प्रजातां रायः चक्रवर्त्तिराज्यलक्ष्म्याः पोषं गौपत्यं सकलविद्याधिस्वामित्वं सुवीर्य्यं च धारय । आवां सजातान् जन्मतः सूपदिश्य सर्वविद्याग्रहणार्थं यजमानाय क्रियाकौशलसहितानां सर्वासां विद्यानां प्रवक्त्रे समर्पयेव।
हे सुभगे ! या त्वम् अङिगरस्वत् सूत्रात्मप्राणवद् ध्रुवा सुस्थिरा असि, दिशः सर्वासु दिक्षु व्याप्तकीर्त्तिः असि, तां त्वा वैश्वानराः ये विश्वेषु नायकेषु राजन्ते विश्वे सर्वे देवाः उपदेशका विद्वांसः आनुष्टुभेन छन्दसा मदधीनां कृण्वन्तु।
हे पुरुष ! यस्त्वम् अङ्गिरस्वत् सूत्रात्मप्राणवद् ध्रुवः सुस्थिरः असि, दिशः सर्वासु दिक्षु व्याप्तकीर्त्तिः असि, यं त्वा वैश्वानराः ये विश्वेषु नायकेषु राजन्ते विश्वे सर्वे देवाः उपदेशका विद्वांसः मदधीनं कृण्वन्तु, स त्वं मयि प्रजां रायः समग्रैश्वर्य्यस्य पोषं गौपत्यं वाक्चातुर्य्यं सुवीर्य्यं च धारय। आवां सूपदेशार्थं सजातान्=सन्तानान् यजमानाय सत्योपदेशकाय समर्पयेव ॥ ५८ ॥
[हे ब्रह्मचारिणि कुमारिके........त्वां......वसवः......मम स्त्रियं कृण्वन्तु, हे कुमार! ब्रह्मचारिन् !..... त्वा वसवः.....मम पतिं कृण्वन्तु]

हे ब्रह्मचारिणि कुमारिके ! या त्वमङ्गिरस्वद्ध्रुवासि पृथिव्यसि तां त्वा गायत्रेण छन्दसा वसवो मम स्त्रियं कृण्वन्तु । हे कुमार ब्रह्मचारिन् ! यस्त्वमङ्गिरस्वद् ध्रुवोऽसि भूमिवत् क्षमावानसि यं त्वा वसवो गायत्रेण छन्दसा मम पतिं कृण्वन्तु स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं च धारय। आवां सजातान् संतानान् सर्वान्यजमानाय विद्याग्रहणार्थं समर्पयेव। हे स्त्रि ! या त्वमङ्गिरस्वद्ध्रुवास्यन्तरिक्षमसि तां त्वा रुद्रास्त्रैष्टुभेन छन्दसा मम पत्नीं कृण्वन्तु। हे वीर! यस्त्वमङ्गिरस्वद्ध्रुवोऽस्यन्तरिक्षमसि यं त्वा रुद्रास्त्रैष्टुभेन छन्दसा मम स्वामिनं कृण्वन्तु। स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्य्यं च धारय। आवां सजातान् सुशिक्ष्य वेदशिक्षाध्ययनाय यजमानाय प्रदद्याव । हे विदुषि! या त्वमङ्गिरस्वद्ध्रुवाऽसि द्यौरसि तां त्वादित्या जागतेन छन्दसा मम भार्य्यां कृण्वन्तु। हे विद्वन्! यस्त्वमङ्गिरस्वद्ध्रुवोऽसि द्यौरसि यं त्वादित्या जागतेन छन्दसा ममाधिष्ठातारं कृण्वन्तु। स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं च धारय । आवां सजातान् जन्मतः सूपदिश्य सर्वविद्याग्रहणार्थं यजमानाय समर्पयेव। हे सुभगे ! या त्वमङ्गिरस्वद् ध्रुवासि दिशोऽसि तां त्वा वैश्वानरा विश्वे देवा आनुष्टुभेन छन्दसा मदधीनां कृण्वन्तु । हे पुरुष! यस्त्वमङ्गिरस्वद्ध्रुवोऽसि दिशोऽसि यं त्वा वैश्वानरा विश्वेदेवा मदधीनं कृण्वन्तु स त्वं मयि प्रजां रायस्पोषं गौपत्यं सुवीर्यं च धारय । आवां सूपदेशार्थं सजातान् यजमानाय समर्पयेव ॥ ५८ ॥
Meaning of Essence
प्रजाम्=सन्तानम् । सजातान्=पुत्रान् पुत्र्यश्च ।
Special
सिन्धुद्वीपः । वसुरुद्रादित्यविश्वेदेवाः=विद्वदादयः॥ पूर्वार्द्धस्योत्तरार्द्धस्य चोत्कृती छन्दसी। षड्जः ॥