Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 56

82 Mantra
11/56
Devata- अदितिर्देवता Rishi- सिन्धुद्वीप ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा। सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः॥५६॥

सि॒नी॒वा॒ली। सु॒क॒प॒र्देति॑ सुऽकप॒र्दा। सु॒कु॒री॒रेति॑ सुऽकुरी॒रा। स्वौ॒प॒शेति॑ सुऽऔप॒शा। सा। तुभ्य॑म्। अ॒दि॒ते॒। म॒हि॒। आ। उ॒खाम्। द॒धा॒तु॒। हस्त॑योः ॥५६ ॥

Mantra without Swara
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यमदिते मह्योखान्दधातु हस्तयोः ॥

सिनीवाली। सुकपर्देति सुऽकपर्दा। सुकुरीरेति सुऽकुरीरा। स्वौपशेति सुऽऔपशा। सा। तुभ्यम्। अदिते। महि। आ। उखाम्। दधातु। हस्तयोः॥५६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सिनीवाली) प्रेमास्पदाढ्या (सुकपर्दा) सुकेशी (सुकुरीरा) शोभनानि कुरीराण्यलंकृतान्याभूषणानि यया सा । कृञ उच्च ॥ उ० ४ । ३३ ॥ इति ईरन् प्रत्ययः (स्वौपशा) उपसमीपे श्यति=तनूकरोति यया पाकक्रियया सोपशा तस्या इदं कर्म औपशं तच्छोभनं विद्यते यस्याः सा (सा) (तुभ्यम्) (अदिते) अखण्डितानन्दे (महि) पूज्ये (आ) (उखाम्) सूपादिसाधनीं स्थालीम् (दधातु) (हस्तयोः) ॥ ५६ ॥
Essence
सतीभिः स्त्रीभिः सुशिक्षितारचतुराः परिचारिका रक्षणीयाः। यतः सर्वाः पाचकादिसेवा यथाकालं स्युः ॥ ११ । ५६ ।
Subject
पुनस्तदेवाह ॥
Meaning of Anvay
हे महि पूज्ये ! अदिते अखण्डितानन्दे! या सिनीवाली प्रेमास्पदाढ्या सुकपर्दा सुकेशी सुकुरीरा शोभनानि कुरीराण्यलंकृतान्याभूषणानि यया सा, स्वौपशा उप=समीपे श्यति=तनूकरोति यया पाकक्रियया सोपशा, तस्या इदं कर्म औपशं, तच्छोभनं विद्यते यस्याः सा, यस्यै तुभ्यं हस्तयोः उखां सूपादिसाधनीं स्थालीम् [आ] दधातु सा त्वया संसेव्या ॥११ । ५६ ॥
[हे......अदिते! या सिनीवाली.......सुकुरीरा, स्वौपशा यस्यै तुभ्यं हस्तयोरुखां दधातु]
हे मह्यदिते ! या सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा यस्यै तुभ्यं हस्तयोरुखां दधातु सा त्वया संसेव्या ॥ ५६ ॥
Meaning of Essence
अदिते=सतीस्त्रि । सुकुरीरा=सुशिक्षिता चतुरा |
Special
सिन्धुद्वीपः । अदितिः=अखण्डितानन्दा स्त्री ॥ विराडनुष्टुप् । गान्धारः ॥