Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 55

82 Mantra
11/55
Devata- सिनीवाली देवता Rishi- सिन्धुद्वीप ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
सꣳसृ॑ष्टां॒ वसु॑भी रु॒द्रैर्धीरैः॑ कर्म॒ण्यां मृद॑म्। हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम्॥५५॥

सꣳसृ॑ष्टा॒मिति॒ सम्ऽसृ॑ष्टाम्। वसु॑भि॒रिति॒ वसु॑ऽभिः। रु॒द्रैः। धीरैः॑। क॒र्म॒ण्या᳕म्। मृद॑म्। हस्ता॑भ्याम्। मृ॒द्वीम्। कृ॒त्वा। सि॒नी॒वा॒ली। कृ॒णो॒तु॒। ताम् ॥५५ ॥

Mantra without Swara
सँसृष्टाँवसुभी रुद्रैर्धीरैः कर्मण्याम्मृदम् । हस्ताभ्याम्मृद्वीङ्कृत्वा सिनीवाली कृणोतु ताम् ॥

सꣳसृष्टामिति सम्ऽसृष्टाम्। वसुभिरिति वसुऽभिः। रुद्रैः। धीरैः। कर्मण्याम्। मृदम्। हस्ताभ्याम्। मृद्वीम्। कृत्वा। सिनीवाली। कृणोतु। ताम्॥५५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(संसृष्टाम्) सम्यक् सुशिक्षया निष्पादिताम् (वसुभिः) कृतेन चतुर्विंशतिवर्षब्रह्मचर्येण प्राप्तविद्यैः (रुद्रैः) सेवितेन चतुश्चत्वारिंशद्वर्षब्रह्मचर्येण विद्याबलयुक्तैः (धीरैः) सुसंयमैः (कर्मण्याम्) या कर्मभिः संपद्यतेताम् । अत्र कर्मवेषाद्यत् ॥ अ० ५ । १ । १०० ॥ इति कर्मशब्दात् संपादिन्यर्थे यत् (मृदम्) कोमलाङ्गीम् (हस्ताभ्याम्) (मृद्वीम्) मृदुगुणस्वभावाम् (कृत्वा) (सिनीवाली) या सिनी:=प्रेमबद्धाः कन्या वलयति सा (कृणोतु) करोतु (ताम्) ॥ ५५ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा कुलालादयः शिल्पिनो जलेन मृत्तिकां कोमलां कृत्वा तत्संभूतान् घटादीन् रचयित्वा सुखकार्याणि साध्नुवन्ति,
[धीरैर्वसुभीरुद्रैर्या शिक्षया संसृष्टां मृद्वीं कृणोतु, वा सिनीवाली वर्त्तते तां स्त्रियं कृत्वा सुखयतु]
तथैव विद्वद्भिर्मातापितृभिः शिक्षिता हृद्याः कन्याः ब्रह्मचारिणो विवाहाय संगृह्य गृहकृत्यानि साध्नुवन्तु ॥ ११ । ५५ ॥
Subject
स्त्रीभिः किं भूताः सेविका रक्षणीया इत्याह ॥
Meaning of Anvay
हे पते ! भवान् शिल्पिहस्ताभ्यां कर्मण्यां या कर्मभिः सम्पद्यते तां मृदं कोमलाङ्गीम् इव, धीरैः सुसंयमैः वसुभिः कृतेन चतुर्विंशतिवर्षब्रह्मचर्येण प्राप्तविद्यैः रुद्रैः सेवितेन चतुश्चत्वारिंशद्वर्षब्रह्मचर्येण विद्याबलयुक्तैः शिक्षया संसृष्टां सम्यक् सुशिक्षया निष्पादितां मृद्वीं मृदुगुणस्वभावां कृणोतु करोतु, या सिनीवाली या सिनी:=प्रेमबद्धाः कन्या वलयति सा वर्त्तते तां स्त्रियं कृत्वा सुखयतु ॥ ५५ ॥
[हे पते! भवान् शिल्पिहस्ताभ्यां कर्मण्यां मृदमिव]
हे पते ! भवान् शिल्पिहस्ताभ्यां कर्मण्यां मृदमिव धीरैर्वसुभी रुद्रैर्या शिक्षया संसृष्टां मृद्वीं कृणोतु या सिनीवाली वर्त्तते तां स्त्रियं कृत्वा सुखयतु ॥ ५५ ॥
Meaning of Essence
मृदम्=मृत्तिकाम् । धीरैः=विद्वद्भिः । सिनीवाली=हृद्या कन्या ।
Special
सिन्धुद्वीपः । सिनीवाली=हृद्या कन्या ॥ विराडनुष्टुप् । गान्धारः ॥