Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 54

82 Mantra
11/54
Devata- रुद्रा देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
रु॒द्राः स॒ꣳसृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे। तेषां॑ भा॒नुरज॑स्र॒ऽइच्छु॒क्रो दे॒वेषु॑ रोचते॥५४॥

रु॒द्राः। स॒ꣳसृज्येति॑ स॒म्ऽसृज्य॑। पृ॒थि॒वीम्। बृ॒हत्। ज्योतिः॑। सम्। ई॒धि॒रे॒। तेषा॑म्। भा॒नुः। अज॑स्रः। इत्। शु॒क्रः। दे॒वेषु॑। रो॒च॒ते॒ ॥५४ ॥

Mantra without Swara
रुद्राः सँसृज्य पृथिवीम्बृहज्ज्योतिः समीधिरे । तेषाम्भानुरजस्रऽइच्छुक्रो देवेषु रोचते ॥

रुद्राः। सꣳसृज्येति सम्ऽसृज्य। पृथिवीम्। बृहत्। ज्योतिः। सम्। ईधिर। तेषाम्। भानुः। अजस्रः। इत्। शुक्रः। देवेषु। रोचते॥५४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(रुद्राः) यथा प्राणरूपा वायवः (संसृज्य) सूर्य्यमुत्पाद्य (पृथिवीम्) भूमिम् (बृहत्) महत् (ज्योतिः) प्रकाशम् (सम्) (ईधिरे) दीपयन्ति (तेषाम्) वायूनां सकाशादुत्पाद्य (भानुः) सूर्य्यः (अजस्र:) बहुरजस्रं प्रकाशो निरन्तरं विद्यते यस्मिन् सः। अत्र अर्शआदित्वादच् (इत्) इव (शुक्रः) भास्वरः (देवेषु) दिव्येषु पृथिव्यादिषु (रोचते) प्रकाशते ॥ ५४ ॥
Essence
अत्रोपमालङ्कारः। यथा वायुः सूर्यस्य, सूर्यः प्रकाशस्य, प्रकाशश्चाक्षुषव्यवहारस्य च कारणमस्ति, तथैव स्त्रीपुरुषाः परस्परस्य सुखस्य साधनोपसाधनकारिणो भूत्वा सुखानि साधयेयुः ॥ ११ । ५४॥
Subject
पुनस्तमेव विषयमाह॥
Meaning of Anvay
हे स्त्रीपुरुषाः! यथा रुद्राः प्राणरूपा वायवः सूर्य्यं सम्+सृज्य सूर्य्यमुत्पाद्य पृथिवीं भूमिं, बृहत् महद् ज्योतिः प्रकाशं सम्+ईधिरे दीपयन्ति तेषां वायूनां सकाशादुत्पन्नः शुक्रः भास्वरः भानुः सूर्य्यः देवेषु दिव्येषु पृथिव्यादिषु अजस्र: बहुरजस्रं प्रकाशो निरन्तरं विद्यते यस्मिन् सः, रोचते प्रकाशते, इत्=इव विद्यान्यायार्कमुत्पाद्य प्रजाजनान् प्रकाशयन्ते, तेभ्यः प्रजासु दिव्यानि सुखानि प्रचारयत ॥ ५४॥
[हे स्त्री पुरुषाः! यथा रुद्राः सूर्यं संसृज्य बृहज्ज्योतिः समीधिरे]
हे स्त्रीपुरुषाः ! यथा रुद्राः सूर्य्यं संसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे तेषां सकाशादुत्पन्नः शुक्रो भानुर्देवेष्वजस्रो रोचत इदिव विद्यान्यायार्कमुत्पाद्य प्रजाजनान् प्रकाशयते तेभ्यः प्रजासु दिव्यानि सुखानि प्रचारयत ॥ ५४॥
Special
सिन्धुद्वीपः । रूद्राः=वायवः ॥ अनुष्टुप् । गान्धारः ॥