Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 53

82 Mantra
11/53
Devata- मित्रो देवता Rishi- सिन्धुद्वीप ऋषिः Chhand- उपरिष्टाद् बृहती Swara- मध्यमः
Mantra with Swara
मि॒त्रः स॒ꣳसृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह। सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सꣳसृ॑जामि प्र॒जाभ्यः॑॥५३॥

मि॒त्रः। स॒ꣳसृज्येति॑ स॒म्ऽसृज्य॑। पृ॒थि॒वीम्। भूमि॑म्। च॒। ज्योति॑षा। स॒ह। सुजा॑त॒मिति॒ सुऽजा॑तम्। जा॒तवे॑दस॒मिति॑ जा॒तऽवे॑दसम्। अ॒य॒क्ष्माय॑। त्वा॒। सम्। सृ॒जा॒मि॒। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑ ॥५३ ॥

Mantra without Swara
मित्रः सँसृज्य पृथिवीम्भूमिञ्च ज्योतिषा सह । सुजातञ्जातवेदसमयक्ष्माय त्वा सँ सृजामि प्रजाभ्यः ॥

मित्रः। सꣳसृज्येति सम्ऽसृज्य। पृथिवीम्। भूमिम्। च। ज्योतिषा। सह। सुजातमिति सुऽजातम्। जातवेदसमिति जातऽवेदसम्। अयक्ष्माय। त्वा। सम्। सृजामि। प्रजाभ्य इति प्रऽजाभ्यः॥५३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मित्रः) सर्वेषां सुहृत्सन् (संसृज्य) संसर्गी भूत्वा (पृथिवीम्) अन्तरिक्षम् (भूमिम्) क्षितिम् (च) (ज्योतिषा) विद्यान्यायसुशिक्षाप्रकाशेन (सह) ( सुजातम्) सुष्ठुप्रसिद्धम् (जातवेदसम्) उत्पन्नं वेदविज्ञानम् (अयक्ष्माय) आरोग्याय (त्वा) त्वाम् (सम्) (सृजामि) निष्पादयामि (प्रजाभ्यः) पालनीयाभ्यः ॥ ५३ ॥
Essence
स्त्रीपुरुषाभ्यां सद्गुणविद्वदासंगाच्छ्रेष्ठाचारं कृत्वा शरीरात्मनोरारोग्यं संपाद्य सुप्रजा उत्पादनीयाः ॥ ११ । ५३ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे पते ! यस्त्वं मित्रः सर्वेषां सुहृत् सन् प्रजाभ्यः पालनीयाभ्यः अयक्ष्माय आरोग्याय ज्योतिषा विद्यान्यायसुशिक्षाप्रकाशेन सह पृथिवीम् अन्तरिक्षं भूमिं क्षितिं च सम्+सृज्य संसर्गी भूत्वा मां सुखयसि, नं सुजातं सुष्ठुप्रसिद्धं जातवेदसम् उत्पन्नं वेदविज्ञानं त्वा अहमप्येतदर्थं सम्+सृजामि निष्पादयामि ॥ ५३ ॥
[हे पते ! यतस्त्वं मित्रः प्रजाभ्योऽयक्ष्माय.........मां सुखयसि तं.........त्वामहमप्येतदर्थं संसृजामि]
हे पते ! यस्त्वं मित्रः प्रजाभ्योऽयक्ष्मायं ज्योतिषा सह पृथिवीं भूमिं च संसृज्य मां सुखयसि तं सुजातं जातवेदसं त्वाऽहमप्येतदर्थं संसृजामि ॥ ५३ ॥
Meaning of Essence
अयक्ष्माय=शरीरात्मनोरारोग्याय । प्रजाभ्यः=सुप्रजाभ्यः ।
Special
सिन्धुद्वीपः । मित्र:=पतिः॥ उपरिष्टाद् बृहती । मध्यमः ॥