Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 52

82 Mantra
11/52
Devata- आपो देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तस्मा॒ऽअं॑र गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥५२॥

तस्मै॑। अर॑म्। ग॒मा॒म॒। वः॒। यस्य॑। क्षया॑य। जिन्व॑थ। आपः॑। ज॒नय॑थ। च॒। नः॒ ॥५२ ॥

Mantra without Swara
तस्माऽअरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

तस्मै। अरम्। गमाम। वः। यस्य। क्षयाय। जिन्वथ। आपः। जनयथ। च। नः॥५२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तस्मै) वक्ष्यमाणाय (अरम्) अलम् । अत्र कपिलकादित्वात्लत्वम् (गमाम) गच्छेम (वः) युष्मान् (यस्य) जनस्य (क्षयाय) निवासार्थाय गृहाय (जिन्वथ) प्रीणयत (आपः) जलानीव (जनयथ) उत्पादयत। अत्रान्येषामपीति दीर्घः (च) सुखादीनां समुच्चये (नः) अस्माकम् ॥ ५२ ॥
Essence
पुरुषो यस्याः स्त्रियः पतिः, यस्य पुरुषस्य या स्त्री पत्नी भवेत् स सा च परस्परस्यानिष्टं कदापि न कुर्यात्।
[ता वो युष्मान् वयमरङ्गमाम]
एवं सुखसन्तानैरलंकृतौ भूत्वा धर्मेण गृह-कृत्यानि कुर्याताम् ॥ ११ । ५२ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
आपः=जलवद्वर्त्तमानाः! जलानीव ! या यूयं नः अस्माकं [तस्मै] वक्ष्यमाणाय क्षयाय निवासार्थाय गृहाय जिन्वथ प्रीणयत, जनयथ उत्पादयत च सुखादीनां समुच्चये, ता वः=युष्मान् वयम् अरम् अलं गमाम गच्छेम ।
यस्य=प्रतिज्ञातस्य धर्म्यव्यवहारस्य जनस्य पालिका भवत तस्यैव वयमपि भवेम ॥ ५२ ॥
[हे आप ! या यूयं नः [तस्मै] क्षयाय जिन्वथ, जनयथ च]
हे आपः ! जलवद्वर्त्तमानाः या यूयं नः तस्मै क्षयाय जिन्वथ जनयथ च ता वो युष्मान्वयमरं गमाम यस्य प्रतिज्ञातस्य धर्म्यव्यवहारस्य पालिका भवत तस्यैव वयमपि भवेम ॥ ५२ ॥
Special
सिन्धुद्वीपः । आपः=स्त्रियः ॥ गायत्री । षडजः ॥