Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 51

82 Mantra
11/51
Devata- आपो देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥५१॥

यः। वः॒। शि॒वत॑म॒ इति॑ शि॒वऽत॑मः। रसः॑। तस्य॑। भा॒ज॒य॒त॒। इ॒ह। नः॒। उ॒श॒तीरि॒वेत्यु॑श॒तीःऽइ॑व। मा॒तरः॑ ॥५१ ॥

Mantra without Swara
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥

यः। वः। शिवतम इति शिवऽतमः। रसः। तस्य। भाजयत। इह। नः। उशतीरिवेत्युशतीःऽइव। मातरः॥५१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(यः) (वः) युष्माकम् (शिवतमः) अतिशयेन सुखकारी (रसः) आनन्दः (तस्य) (भाजयत) सेवयत (इह) अस्मिन् गृहाश्रमे (नः) अस्माकमस्मान् वा (उशतीरिव) यथा कामयमानाः (मातरः) जनन्यः ॥ ५१ ॥
Essence
स्त्री मातापितरौ पुत्रानिव स्वं स्वं पतिं, प्रीत्या सेवताम्, एवमेव स्वां स्वां स्त्रियं पतिश्च।
यथा जलानि तृषातुरान् प्राणिनस्तृप्यन्ति तथैव सुशीलतयाऽऽनन्देन तृप्ताः सन्तु ॥ ११ । ५१ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे स्त्रियः ! वः युष्माकं नः अस्माकम् इह अस्मिन् गृहाऽऽश्रमे यः शिवतमः अतिशयेन सुखकारी रसः आनन्दः अस्ति, तस्य मातरः जनन्यः पुत्रान् उशतीरिव यथा कामयमानाः [नः] अस्मान् भाजयत सेवयत ॥ ५१ ॥
[ हे स्त्रियो ! वो न इह यः शिवतमो रसोऽस्ति, तस्य मातरः पुत्रानुशतीरिव भाजयत]
हे स्त्रियः। वो न इह यः शिवतमो रसोऽस्ति तस्य मातरः पुत्रानुशतीरिव भाजयत ॥ ५१ ॥
Special
सिन्धुद्वीपः । आपः=स्त्रियः ॥ गायत्री । षड्जः ॥