Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 50

82 Mantra
11/50
Devata- आपो देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ऽऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥५०॥

आपः॑। हि। स्थ। म॒यो॒भुव॒ इति॑ मयः॒ऽभुवः॑। ताः। नः॒। ऊ॒र्जे। द॒धा॒त॒न॒। म॒हे। रणा॑य। चक्ष॑से ॥५० ॥

Mantra without Swara
आपो हि ष्ठा मयोभुवस्ता नऽऊर्जे दधातन । महे रणाय चक्षसे ॥

आपः। हि। स्थ। मयोभुव इति मयःऽभुवः। ताः। नः। ऊर्जे। दधातन। महे। रणाय। चक्षसे॥५०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आपः) आप इव शुभगुणव्यापिकाः (हि) खलु (स्थ) भवत । अत्रान्येषामपीति दीर्घः (मयोभुवः) सुखं भावुकाः (ताः) (नः) अस्माकम् (ऊर्जे) बलयुक्ताय (दधातन) धरत (महे) महते (रणाय) संग्रामाय (चक्षसे) ख्यातुं योग्याय ॥ ५० ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ यथा स्त्रियः स्वपतीन् प्रीणयेयुस्तथैव पतयः स्वाः स्त्रियः सदा सुखयन्तु ।
[ता ऊर्जे महे रणाय चक्षसे नो दधातन]
एते युद्धकर्मण्यपि पृथङ् न वसेयुरर्थात् सहैव सदा वर्त्तेरन् ॥ ५० ॥
Subject
अथ कृतविवाहाः स्त्रीपुरुषा अन्योन्यं कथं वर्त्तेरन्नित्याह ॥
Meaning of Anvay
हे जलवद्वर्त्तमाना आपः आप इव शुभगुणव्यापिकाः इव याः स्त्रियः! यूयं मयोभुवः सुखं भावुका: [हि] खलु स्थ भवत, ताः ऊर्जे बलयुक्ताय महे महते रणाय सङ्ग्रामाय चक्षसे ख्यातुं योग्याय नः अस्माकं दधातन धरत॥
[हे.......आप......स्त्रियः। यूयं मयोभुवः स्थ]
हे जलवद्वर्त्तमाना आप इव याः स्त्रियः! यूयं मयोभुवःस्थ ता ऊर्जे महे रणाय चक्षसे नो दधातन ॥ ५० ॥
Special
सिन्धुद्वीपः । आपः=स्त्रियः ॥ गायत्री । षड्जः ॥