Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 46

82 Mantra
11/46
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- ब्राह्मी बृहती छन्द Swara- मध्यमः
Mantra with Swara
प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा॑। भर॑न्न॒ग्निं पु॑री॒ष्यं मा पा॒द्यायु॑षः पु॒रा। वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भ॑ꣳ समु॒द्रिय॑म्। अग्न॒ऽआया॑हि वी॒तये॑॥४६॥

प्र। ए॒तु॒। वा॒जी। कनि॑क्रदत्। नान॑दत्। रास॑भः। पत्वा॑। भर॑न्। अ॒ग्निम्। पु॒री॒ष्य᳕म्। मा। पा॒दि॒। आयु॑षः। पु॒रा। वृ॒षा॑। अ॒ग्निम्। वृष॑णम्। भर॑न्। अ॒पाम्। गर्भ॑म्। स॒मु॒द्रिय॑म्। अग्ने॑। आ। या॒हि॒। वी॒तये॑ ॥४६ ॥

Mantra without Swara
प्रैतु वाजी कनिक्रदन्नानदद्रासभः पत्वा । भरन्नग्निम्पुरीष्यम्मा पाद्यायुषः पुरा । वृषाग्निँवृषणम्भरन्नपाङ्गर्भँ समुद्रियम् । अग्नऽआयाहि वीतये ॥

प्र। एतु। वाजी। कनिक्रदत्। नानदत्। रासभः। पत्वा। भरन्। अग्निम्। पुरीष्यम्। मा। पादि। आयुषः। पुरा। वृषा। अग्निम्। वृषणम्। भरन्। अपाम्। गर्भम्। समुद्रियम्। अग्ने। आ। याहि। वीतये॥४६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्र) (एतु) गच्छतु (वाजी) अश्वः (कनिक्रदत्) गच्छन् (नानदत्) भृशं शब्दं कुर्वन् (रासभः) दातुं योग्य: (पत्वा) पतति=गच्छतीति (भरन्) धरन् (अग्निम्) विद्युतम् (पुरीष्यम्) पुरीषेषु=पालनेषु साधुम् (मा) (पादि) गच्छ (आयुषः) नियतवर्षाज्जीवनात् (पुरा) पूर्वम् (वृषा) बलिष्ठ: (अग्निम्) सूर्य्याख्यम् (वृषणम्) वर्षयितारम् (भरन्) (अपाम्) जलानाम् (गर्भम्) (समुद्रियम्) समुद्रे भवम् (अग्ने) विद्वन् (आ) (याहि) प्राप्नुहि (वीतये) विविधसुखानां व्याप्तये ॥ ४६ ॥
Essence
मनुष्या विषयलोलुपता त्यागेन ब्रह्मचर्येण पूर्णजीवनं धृत्वाऽग्न्यादिपदार्थविज्ञानाद् धर्म्यं व्यवहारमुन्नयेयुः ॥ ११। ४६ ॥
Subject
पुनः स एवं विषय उपदिश्यते ॥
Meaning of Anvay
हे अग्ने=सुसन्तान विद्वन् ! भवान् कनिक्रदत् गच्छन् नानदत् भृशं शब्दं कुर्वन् रासभः दातुं योग्यः पत्वा पतति=गच्छतीति वाजी अश्वः इव आयुषः नियतवर्षाज्जीवनात् पुरा पूर्वं मा प्र+एतु गच्छतु ।
पुरीष्यं पुरीषेषु=पालनेषु साधुम् अग्निं विद्युतं भरन् धरन् मा पादि=इतस्ततो मा गच्छ।
वृषा बलिष्ठः अपां जलानां गर्भं समुद्रियं समुद्रे भवं वृषणं वर्षयितारम् अग्निं सूर्य्याख्यं भरन् धरन् सन् वीतये विविधसुखानां व्याप्तये आ+याहि प्राप्नुहि ॥ ११ । ४६ ॥
[हे अग्ने ! भवान्........आयुषः पुरा मा प्रैतुः,......अग्निं भरन् मा पादि]
हे अग्ने सुसन्तान ! भवान् कनिक्रदन्नानदद्रासभः पत्वा वाजीवायुषः पुरा मा प्रैतु । पुरीष्यमग्निं भरन्मा पादि इतस्ततो मागच्छ। वृषापां गर्भं समुद्रियं वृषणमग्निं भरन् सन् वीतय आयाहि ॥ ४६ ॥
Meaning of Essence
अग्निम्=अग्न्यादिपदार्थविज्ञानम् ।
Special
त्रितः । अग्निः=सन्तानः । ब्राह्मी बृहती । मध्यमः ॥