Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 45

82 Mantra
11/45
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराट् पथ्या बृहती छन्द Swara- मध्यमः
Mantra with Swara
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः। मा द्यावा॑पृथि॒वीऽअ॒भि शो॑ची॒र्मान्तरि॑क्षं॒ मा वन॒स्पती॑न्॥४५॥

शि॒वः। भ॒व॒। प्र॒जाभ्य॒ इति॑ प्र॒जाऽभ्यः॑। मानु॑षीभ्यः। त्वम्। अ॒ङ्गि॒रः॒। मा। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। अ॒भि। शो॒चीः॒। मा। अ॒न्तरि॑क्षम्। मा। वन॒स्पती॑न् ॥४५ ॥

Mantra without Swara
शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी अभि शोचीर्मान्तरिक्षम्मा वनस्पतीन् ॥

शिवः। भव। प्रजाभ्य इति प्रजाऽभ्यः। मानुषीभ्यः। त्वम्। अङ्गिरः। मा। द्यावापृथिवीऽइति द्यावापृथिवी। अभि। शोचीः। मा। अन्तरिक्षम्। मा। वनस्पतीन्॥४५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शिवः) कल्याणकरी मङ्गलमयः (भव) (प्रजाभ्यः) प्रसिद्धाभ्यः (मानुषीभ्यः) मनुष्यादिभ्यः (त्वम्) (अङ्गिरः) प्राण इव प्रिय (मा) निषेधे (द्यावापृथिवी) विद्युद्भूमी (अभि) आभ्यन्तरे (शोचीः) शोकं कुर्य्याः (मा) (अन्तरिक्षम्) अवकाशम् (मा) (वनस्पतीन्) वटादीन् ॥४५ ॥
Essence
सन्तानैः प्रजाः प्रति मङ्गलाचरणेन भूत्वा,
[द्यावा पृथिवी माऽभिशोधिः]
पृथिव्यादीनां मध्ये निश्शोकैः स्थातव्यम् । किन्तु--एतेषां रक्षां विधायोपकारायोत्साहतया प्रयतितव्यम् ॥११ । ४५ ॥
Subject
पुनस्तैः प्रजासु कथं वjर्त्तितव्यमित्याह ॥
Meaning of Anvay
हे अङ्गिरः प्राण इव प्रिय ! त्वं मानुषीभ्यः मनुष्यादिभ्यः प्रजाभ्यः प्रसिद्धाभ्यः शिवः कल्याणकरो मङ्गलमयः भव । द्यावापृथिवी विद्युदूमी मा न अभि+शोचिः आभ्यन्तरे शोकं कुर्य्याः। अन्तरिक्षम् अवकाशं मा न अभि+शोचिः आभ्यन्तरे शोकं कुर्य्याः, वनस्पतीन् वटादीन् मा न अभि+शोचिः आभ्यन्तरे शोकं कुर्य्याः ॥११ । ४५ ॥
[हे अङ्गिरः ! त्वं मानुषीभ्यः प्रजाभ्यः शिवो भव]
हे अङ्गिरः ! त्वं मानुषीभ्यः प्रजाभ्यः शिवो भव द्यावापृथिवी माभिशोचीरन्तरिक्षं माभिशोचिर्वनस्पतीन्माभिशोचीः ॥४५ ॥
Meaning of Essence
अङ्गिरः=सन्तान ! शिवः=मङ्गलाचरणः।
Special
चित्रः । अग्निः=विद्वान् ॥ विराट् पथ्या बृहती । मध्यमः ॥