Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 44

82 Mantra
11/44
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
स्थि॒रो भ॑व वी॒ड्वङ्गऽआ॒शुर्भ॑व वा॒ज्यर्वन्। पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः॥४४॥

स्थि॒रः। भ॒व॒। वी॒ड्व᳖ङ्ग॒ इति॑ वी॒डुऽअ॑ङ्गः। आ॒शुः। भ॒व॒। वा॒जी। अ॒र्व॒न्। पृ॒थुः। भ॒व॒। सु॒षदः॑। सु॒सद॒ इति॑ सु॒ऽसदः॑। त्वम्। अ॒ग्नेः। पु॒री॒ष॒वाह॑णः। पु॒री॒ष॒वाह॑न॒ इति॑ पुरीष॒ऽवाह॑नः ॥४४ ॥

Mantra without Swara
स्थिरो भव वीड्वङ्गऽआशुर्भव वाज्यर्वन् । पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः ॥

स्थिरः। भव। वीड्वङ्ग इति वीडुऽअङ्गः। आशुः। भव। वाजी। अर्वन्। पृथुः। भव। सुषदः। सुसद इति सुऽसदः। त्वम्। अग्नेः। पुरीषवाहणः। पुरीषवाहन इति पुरीषऽवाहनः॥४४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(स्थिरः) निश्चलः (भव) (वीड्वङ्गः) वीडूनि=दृढानि बलिष्ठान्यङ्गानि यस्य सः (आशुः) शीघ्रकारी (भव) (वाजी) प्राप्तनीतिः (अर्वन्) विज्ञानयुक्त (पृथुः) विस्तृतसुखः (भव) (सुषदः) यः शोभनेषु व्यवहारेषु सीदति सः (त्वम्) (अग्नेः) पावकस्य (पुरीषवाहणः) यः पुरीषाणि=पालनादीनि कर्माणि वाहयति=प्रापयति सः ॥ ४४ ॥
Essence
हे सुसन्तानाः ! युष्माभिर्ब्रह्मचर्येण शरीरबलं, विद्यासुशिक्षाभ्यामात्मबलं पूर्णं दृढं कृत्वा स्थिरतया रक्षा विधेया,
[ त्वमग्नेः सुषदः पुरीषवाहणः पृथुर्भव]
आग्नेयाऽस्त्रादिना शत्रुविनाशश्चेति मातापितरः स्वसन्तानान् सुशिक्षेयुः ॥ ११ । ४४ ॥
Subject
अथ पितरौ स्वापत्यानि कथं शिक्षेयातामित्युपदिश्यते॥
Meaning of Anvay
हे अर्वन् !=पुत्र विज्ञानयुक्त ! त्वं विद्याग्रहणाय स्थिरः निश्चलः भव।
वाजी प्राप्तनीति: वीड्वङ्गः वीडूनि=दृढानि बलिष्ठान्यङ्गानि यस्य सः, आशुः शीघ्रकारी भव।
त्वम् अग्नेः पावकस्य सुषदः यः शोभनेषु व्यवहारेषु सीदति सः, पुरीषवाहणः यः पुरीषाणि=पालनादीनि कर्माणि वाहयति प्रापयति सः, पृथुः विस्तृतसुखः भव ॥ ११ । ४४ ॥
[ हे अर्वन् !......त्वं विद्याग्रहणाय स्थिरो भव, वाजी वाड्वङ्ग आशुर्भव]
हे अर्वन् पुत्र ! त्वं विद्याग्रहणाय स्थिरो भव वाजी वीड्वङ्ग आशुर्भव । त्वमग्नेः सुषदः पुरीषवाहणः पृथुर्भव ॥ ४४ ॥
Meaning of Essence
अर्वन्=सुसन्तान ॥
Special
त्रितः । अग्निः=भौतिकः॥ विराडनुष्टुप् । गान्धारः ॥