Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 43

82 Mantra
11/43
Devata- अग्निर्देवता Rishi- त्रित ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स जा॒तो गर्भो॑ऽअसि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ऽओष॑धीषु। चि॒त्रः शिशुः॒ परि॒ तमा॑स्य॒क्तून् प्र मा॒तृभ्यो॒ऽअधि॒ कनि॑क्रदद् गाः॥४३॥

सः। जा॒तः। गर्भः॑। अ॒सि॒। रोद॑स्योः। अग्ने॑। चारुः॑। विभृ॑त॒ इति॒ विऽभृ॑तः। ओष॑धीषु। चि॒त्रः। शिशुः॑। परि॑। तमा॑सि। अ॒क्तून्। प्र। मा॒तृभ्य॑ इति॑ मा॒तृऽभ्यः॑। अधि॑। कनि॑क्रदत्। गाः॒ ॥४३ ॥

Mantra without Swara
स जातो गर्भाऽअसि रोदस्योरग्ने चारुर्विभृतऽओषधीषु । चित्रः शिशुः परि तमाँस्यक्तून्प्रमातृभ्योऽअधि कनिक्रदद्गाः ॥

सः। जातः। गर्भः। असि। रोदस्योः। अग्ने। चारुः। विभृत इति विऽभृतः। ओषधीषु। चित्रः। शिशुः। परि। तमासि। अक्तून्। प्र। मातृभ्य इति मातृऽभ्यः। अधि। कनिक्रदत्। गाः॥४३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सः) (जातः) प्रसिद्धः (गर्भः) यो गीर्यते=स्वीक्रियते सः (असि) (रोदस्योः) द्यावापृथिव्योः (अग्ने) विद्वन् (चारुः) सुन्दरः (विभृतः) विशेषेण धृतः पोषितो वा (ओषधीषु) सोमादिषु (चित्रः) अद्भुतः (शिशुः) बालकः (परि) (तमांसि) रात्री: (अक्तून्) अन्धकारान् (प्र) (मातृभ्यः) मान्यकर्त्रीभ्यः (अधि) (कनिक्रदत्) गच्छन् (गाः) गच्छति । अत्राऽडभावः ॥ ४३ ॥
Essence
यथा ब्रह्मचर्यादिसुनियमैर्जनितः पुत्रो विद्या अधीत्य पितरौ सुखयति, तथैव जनकौ प्रजाः सुखयेताम् ॥ ११ । ४३ ॥
Subject
अथ जनकापत्यव्यवहारमाह ॥
Meaning of Anvay
हे अग्ने ! विद्वन् ! यस्त्वं यथा रोदस्योः द्यावापृथिव्योः जातः प्रसिद्धः चारुः सुन्दरः ओषधीषु सोमादिषु विभृतः विशेषेण धृतः पोषितो वा चित्रः अद्भुतः गर्भः=अर्को यो गीर्यते=स्वीक्रियते सः, मातृभ्यः मान्यकर्त्रीभ्यः तमांसि रात्री: अक्तून् अन्धकारान् परि+अधि+कनिक्रदत् गच्छन् सन् गाः=गच्छति, तथाभूतः शिशुः बालकः गाः=विद्याः प्राप्नुहि ॥ ४३ ॥
[हे अग्ने !.......जातः.......गर्भः मातृभ्यस्तमांसि अक्तून् पर्यधिकनिक्रदत् सन् गा गच्छति]
हे अग्ने ! यस्त्वं यथा रोदस्योर्जातश्चारुरोषधीषु विभृतश्चित्रो गर्भोऽर्को मातृभ्यस्तमांस्यक्तून् पर्य्यधिकनिक्रदत्सन् गा गच्छति तथाभूतः शिशुर्गा विद्याः प्राप्नुहि ॥ ४३ ॥
Meaning of Essence
जात: ब्रह्मचर्यादिसुनियमैर्जनितः। गर्भः=पुत्रः।
Special
त्रितः । अग्निः=विद्वान् ॥ विराट्त्रिष्टुप् । धैवतः ॥