Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 41

82 Mantra
11/41
Devata- अग्निर्देवता Rishi- विश्वमना ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या। दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑॥४१॥

उत्। ऊँ॒ इत्यूँ॑। ति॒ष्ठ॒। स्व॒ध्व॒रेति॑ सुऽअध्वर। अव॑। नः॒। दे॒व्या। धि॒या। दृ॒शे। च॒। भा॒सा। बृ॒ह॒ता। सु॒शु॒क्वनि॒रिति॑ सुऽशु॒क्वनिः॑। आ। अ॒ग्ने॒। या॒हि॒। सु॒श॒स्तिभि॒रिति॑ सुश॒स्तिऽभिः॑ ॥४१ ॥

Mantra without Swara
उदु तिष्ठ स्वध्वरावा नो देव्या धिया । दृशे च भासा बृहता शुशुक्वनिराग्ने याहि सुशस्तिभिः ॥

उत्। ऊँ इत्यूँ। तिष्ठ। स्वध्वरेति सुऽअध्वर। अव। नः। देव्या। धिया। दृशे। च। भासा। बृहता। सुशुक्वनिरिति सुऽशुक्वनिः। आ। अग्ने। याहि। सुशस्तिभिरिति सुशस्तिऽभिः॥४१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(उत्) (उ) (तिष्ठ) (स्वध्वर) शोभना अध्वरा=अहिंसनीया माननीया व्यवहारा यस्य तत्सम्बुद्धौ (अव) रक्ष। अत्र द्व्यचोतस्तिङ इति दीर्घः (नः) अस्मान् (देव्या) शुद्धविद्याशिक्षापन्नया (धिया) प्रज्ञया क्रियया वा (दृशे) द्रष्टुम् (च) (भासा) प्रकाशेन (बृहता) महता (सुशुक्वनिः) सुष्ठु शुचां=पवित्राणां वनिः=संभक्ता (आ) (अग्ने) विद्वन् (याहि) प्राप्नुहि (सुशस्तिभिः) शोभनः प्रशंसितैर्गुणैः ॥ ४१ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। विद्वद्भिः शुद्धविद्या प्रज्ञादानेन सर्वं सततं संरक्ष्याः । न हि सुशिक्षामन्तरा मनुष्याणां सुखायान्यत् किंचिच्छरणमस्ति ।
[त्वं सततमुत्तिष्ठ=सर्वदा प्रयतस्व]
तस्मादालस्यकपटादीनि कुकर्माणि विहाय विद्याप्रचाराय सदा प्रयतितव्यम् ॥ ११ । ४१ ॥
Subject
पुनर्विद्वत्कृत्यमाह ॥
Meaning of Anvay
हे स्वध्वर != सज्जन विद्वन् गृहस्थ, शोभना अध्वराः=अहिंसनीया=माननीया व्यवहारा यस्य तत्सम्बुद्धौ ! त्वं सततम् उत्+तिष्ठ=सर्वदा प्रयतस्व। देव्या शुद्धविद्याशिक्षापन्नया धिया प्रज्ञया क्रियया वा नः अस्मान् अव रक्ष।
हे अग्ने !=अग्निवत्प्रकाशमान विद्वन् ! सुशुक्वनिः सुष्ठु शुचां=पवित्राणां वनिः=सम्भक्ता त्वम् उ दृशे द्रष्टुं बृहता महता भासा प्रकाशेन सूर्य इव सुशस्तिभिः शोभनैः प्रशंसितैर्गुणैः सर्वा विद्या आ+याहि प्राप्नुहि, अस्माँश्च प्रापय ॥ ४१ ॥
[हे स्वधर!......त्वं......देव्या धिया नोऽव]
हे स्वध्वर सज्जन विद्वन् गृहस्थ! त्वं सततमुत्तिष्ठ सर्वदा प्रयतस्व। देव्या धिया नोऽव। हे अग्ने अग्निवत्प्रकाशमान ! सुशुक्वनिस्त्वमु दृशे बृहता भासा सूर्य इव सुशस्तिभिः सर्वा विद्यायाहि। अस्माँश्च प्रापय ॥ ४१ ॥
Meaning of Essence
देव्या=शुद्धविद्यादानेन । धिया=शुद्धप्रज्ञादानेन ।
Special
विश्वमनाः । अग्निः=विद्वान् ॥ भुरिगनुष्टुप् । गान्धारः ॥