Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 40

82 Mantra
11/40
Devata- अग्निर्देवता Rishi- सिन्धुद्वीप ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒त् स्वः। वासो॑ऽअग्ने वि॒श्वरू॑प॒ꣳ संव्य॑यस्व विभावसो॥४०॥

सुजा॑त॒ इति॒ सुऽजा॑तः। ज्योति॑षा। स॒ह। शर्म्म॑। वरू॑थम्। आ। अ॒स॒द॒त्। स्व᳖रिति॒ स्वः᳖। वासः॑। अ॒ग्ने॒। वि॒श्वरू॑प॒मिति॑ वि॒श्वऽरू॑पम्। सम्। व्य॒य॒स्व॒। वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ॥४० ॥

Mantra without Swara
सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वः । वासोऽअग्ने विश्वरूपँ सँव्ययस्व विभावसो ॥

सुजात इति सुऽजातः। ज्योतिषा। सह। शर्म्म। वरूथम्। आ। असदत्। स्वरिति स्वः। वासः। अग्ने। विश्वरूपमिति विश्वऽरूपम्। सम्। व्ययस्व। विभावसो इति विभाऽवसो॥४०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सुजातः) सुष्ठु प्रसिद्धः (ज्योतिषा) विद्याप्रकाशेन (सह) (शर्म) गृहम् (वरूथम्) वरम् (आ) (असदत्) सीद (स्वः) सुखम् (वासः) वस्त्रम् (अग्ने) अग्निरिव प्रकाशमान (विश्वरूपम्) विविधस्वरूपम् (सम्) (व्ययस्व) धरस्व (विभावसो) विविधया भया=दीप्त्या सहितं वसु=धनं यस्य तत्सम्बुद्धौ ॥ ४० ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। विवाहितौ स्त्रीपुरुषौ यथा सूर्यो भास्वरतया सर्वं प्रकाशते, तथा सुवस्त्रालङ्कारैरुज्ज्वलो भूत्वा गृहादीनि वस्तूनि सदा पवित्राणि रक्षेताम् ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे विभावसो विविधया भया=दीप्त्या सहितं वसु=धनं यस्य तत्सम्बुद्धौ ! अग्ने अग्निरिव प्रकाशमान! ज्योतिषा विद्याप्रकाशेन सह सुजातः सुष्ठुप्रसिद्धः त्वं स्वः सुखं वरूथं वरं शर्म गृहम् आ+असदत्=सीद; विश्वरूपं विविधस्वरूपं वासः वस्त्रं सम्+व्ययस्व वस्त्रं सम्+व्ययस्व धरस्व ॥ ४० ॥
[हे विभावसो! अग्ने! ज्योतिषा सह....... शर्म आसदत्, विश्वरूपं वासः संव्ययस्व]
हे विभावसोऽग्ने ! ज्योतिषा सह सुजातस्त्वं स्वर्वरूथं शर्मासदत्सीद विश्वरूपं वासो संव्ययस्व ॥ ४० ॥
Meaning of Essence
विभावसो=यथा सूर्यो भास्वरतया सर्वं प्रकाशते तथा । वासः=सुवस्त्रालङ्कारम् । शर्म=गृहादि वस्तु ॥
Special
सिन्धुद्वीपः । अग्निः=गृहस्थ पुरुषः । भुरिगनुष्टुप् । गांधारः ॥