Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 4

82 Mantra
11/4
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- जगती Swara- निषादः
Mantra with Swara
यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॥४॥

यु॒ञ्जते॑। मनः॑। उ॒त। यु॒ञ्ज॒ते। धियः॑। विप्राः॑। विप्र॑स्य। बृ॒ह॒तः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः॑। वि। होत्राः॑। द॒धे॒। व॒यु॒ना॒वित्। व॒यु॒ना॒विदिति॑ वयुन॒ऽवित्। एकः॑। इत्। म॒ही। दे॒वस्य॑। स॒वि॒तुः। परि॑ष्टुतिः। परि॑स्तुति॒रिति॒ परि॑ऽस्तुतिः ॥४ ॥

Mantra without Swara
युञ्जते मनऽउत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेकऽइन्मही देवस्य सवितुः परिष्टुतिः ॥

युञ्जते। मनः। उत। युञ्जते। धियः। विप्राः। विप्रस्य। बृहतः। विपश्चित इति विपःऽचितः। वि। होत्राः। दधे। वयुनावित्। वयुनाविदिति वयुनऽवित्। एकः। इत्। मही। देवस्य। सवितुः। परिष्टुतिः। परिस्तुतिरिति परिऽस्तुतिः॥४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युञ्जते) परमात्मनि तत्त्वविज्ञाने वा समादधते (मनः) चित्तम् (उत) अपि (युञ्जते) (धियः) बुद्धी: (विप्राः) मेधाविनः (विप्रस्य) सर्वशास्त्रविदो मेधाविनः (बृहतः) महतो गुणान् प्राप्तस्य (विपश्चितः) अखिलविद्यायुक्तस्याप्तस्येव वर्त्तमानस्य (वि) (होत्राः) दातुं ग्रहीतुं शीलाः (दधे) (वयुनावित्) यो वयुनानि=प्रज्ञानानि वेत्ति सः । अत्रान्येषामपीति दीर्घः (एकः) असहाय: (इत्) एवं (मही) महती (देवस्य) सर्वप्रकाशस्य (सवितुः) सर्वस्य जगतः प्रसवितुरीश्वरस्य (परिष्टुतिः) परितः=सर्वतः स्तुवन्ति यया सा ॥ ४ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः । युक्ताहारविहारा एकान्ते देशे परमात्मानं युञ्जते, तत्त्वविज्ञानं प्राप्य, नित्यं सुखं यान्ति ॥
Subject
योगाभ्यासं कृत्वा मनुष्याः किं कुर्य्युरित्याह ॥
Meaning of Anvay
ये होत्राः दातुं ग्रहीतुं शीला विप्राः मेधाविनः, यस्य बृहतः महतो गुणान् प्राप्तस्य विपश्चित अखिलविद्यायुक्तस्याऽऽप्तस्य इव वर्तमानस्य विप्रस्य सर्वशास्त्रविदो मेधाविनः सकाशात् प्राप्तविद्याः सन्तो, या सवितुः सर्वस्य जगतः प्रसवितुरीश्वरस्य देवस्य=जगदीश्वरस्य सर्वप्रकाशस्य मही महती परिष्टुतिः परितः सर्वतः स्तुवन्ति यया सा, अस्ति, तत्र यथा मनः चित्तं युञ्जते परमात्मनि तत्त्वज्ञाने वा समादधते, [ उत] अपि धियः बुद्धी: युञ्जते, तथा वयुनावित् यो वयुनानि=प्रज्ञानानि वेत्ति सः, एकः असहायः [इत्] एव अहं वि+दधे ॥। ४ ॥
[ये होत्रा........या.........देवस्य परिष्टुतिरस्ति तत्र........मनो युञ्जते, उत धियो युञ्जते]
ये होत्रा विप्रा यस्य बृहतो विपश्चित इव वर्तमानस्य विप्रस्य सकाशात्प्राप्तविद्याः सन्तो या सवितुर्देवस्य जगदीश्वरस्य मही परिष्टुतिरस्ति तत्र यथा मनो युञ्जते धियो युञ्जते तथा वयुनाविदेकोऽहं विदधे ॥ ४ ॥
Meaning of Essence
होत्राः=युक्ताहारविहाराः ।
Special
प्रजापतिः। सविता=ईश्वरः । जगती । निषादः ॥