Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 39

82 Mantra
11/39
Devata- वायुर्देवता Rishi- सिन्धुद्वीप ऋषिः Chhand- विराट् Swara- धैवतः
Mantra with Swara
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम्। यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म्॥३९॥

सम्। ते॒। वा॒युः। मा॒त॒रिश्वा॑। द॒धा॒तु॒। उ॒त्ता॒नायाः॑। हृद॑यम्। यत्। विक॑स्त॒मिति॒ विऽक॑स्तम्। यः। दे॒वाना॑म्। चर॑सि। प्रा॒णथे॑न। कस्मै॑। दे॒व॒। वष॑ट्। अ॒स्तु॒। तुभ्य॑म् ॥३९ ॥

Mantra without Swara
सन्ते वायुर्मातरिश्वा दधातूत्तानाया हृदयँयद्विकस्तम् । यो देवानाञ्चरसि प्राणथेन कस्मै देव वषडस्तु तुभ्यम् ॥

सम्। ते। वायुः। मातरिश्वा। दधातु। उत्तानायाः। हृदयम्। यत्। विकस्तमिति विऽकस्तम्। यः। देवानाम्। चरसि। प्राणथेन। कस्मै। देव। वषट्। अस्तु। तुभ्यम्॥३९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) (ते) तव (वायुः) पवनः (मातरिश्वा) यो मातर्य्यन्तरिक्षे श्वसिति सः (दधातु) धरतु पुष्णातु वा (उत्तनायाः) उत्कृष्टस्तानः=शुभलक्षणविस्तारो यस्या राज्ञ्यास्तस्याः (हृदयम्) अन्तःकरणम् (यत्) (विकस्तम्) विविधतया कस्यते=शिष्यते यत् तत् (यः) विद्वान् (देवानाम्) धार्मिकाणां विदुषाम् (चरसि) गच्छसि=प्राप्नोषि (प्राणथेन) येन प्राणन्ति=सुखयन्ति तेन (कस्मै) सुखस्वरूपाय (देव) दिव्यसुखप्रद (वषट्) क्रियाकौशलम् (अस्तु) (तुभ्यम्) ॥ ३९॥
Essence
पूर्ण युवा पुरुषो ब्रह्मचारिण्या सह विवाहं कुर्यात्, तस्या अप्रियं कदाचिन्नाचरेत् ।
[ हे देव=पते! स्वामिन्! यस्त्वंप्राणथेन देवानां यद् विकस्तं हृदयं चरसि]
या स्त्री कन्या ब्रह्मचारिणा सहोपयमं कुर्यात् तस्यानिष्टं मनसाऽपि न चिन्तयेत् ।
[तस्मै कस्मै तुभ्यं मत्तो वषडस्तु]
एवं प्रमुदितौ सन्तौ परस्परं संप्रीत्या गृह-कृत्यानि संसाधयेताम् ॥ ११ । ३९ ॥
Subject
अथ स्त्रीपुरुषयोः कर्त्तव्यकर्माह ॥
Meaning of Anvay
हे पत्नि ! उत्तानायाः उत्कृष्टस्तानः=शुभलक्षणविस्तारो यस्या शुभलक्षणविस्तारो राज्ञ्यास्तस्याः ते तव यत् विकस्तं विविधतया कस्यते=शिष्यते यत्तद् हृदयम् अन्तःकरणं तद्यज्ञशोधितो मातरिश्वा यो मातर्य्यन्तरिक्षे श्वसिति सः वायुः पवनः सम्+दधातु धरतु पुष्णातु वा ।
हे देव ! पते=स्वामिन् दिव्यसुखप्रद ! यः विद्वान् त्वं प्राणथेन येन प्राणन्ति=सुखयन्ति तेन देवानां धार्मिकाणां विदुषां यद् विकस्तं विविधतया कस्यते=शिष्यते यत्तद् हृदयम् अन्तःकरणं चरसि गच्छसि=प्राप्नोषि, तस्मै कस्मै सुख-स्वरूपाय तुभ्यं मत्तो वषट् क्रिया-कौशलम् अस्तु ॥ ११ । ३९ ॥
[हे पत्नि ! उत्तानायास्ते यद् विकस्तं हृदयं.......]
हे पत्नि ! उत्तानायास्ते यद्विकस्तं हृदयं तद्यज्ञशोधितो मातरिश्वा वायुः संदधातु । हे देवँपते स्वामिन्! यस्त्वं प्राणथेन देवानां यद्विकस्तं हृदयं चरसि तस्मै कस्मै तुभ्यं मत्तो वषडस्तु ॥ ३९ ॥
Special
सिन्धुद्वीपः । वायुः=स्पष्टम् ॥ विराट्त्रिष्टुप् । धैवतः ॥