Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 38

82 Mantra
11/38
Devata- आपो देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- न्युङ्कुसारिणी बृहती Swara- मध्यमः
Mantra with Swara
अ॒पो दे॒वीरुप॑सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑। तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः॥३८॥

अ॒पः। दे॒वीः। उप॑। सृ॒ज॒। मधु॑मती॒रिति॒ मधु॑ऽमतीः। अ॒य॒क्ष्माय॑। प्र॒जाभ्य॒ इति॑ प्र॒ऽजाभ्यः॑। तासा॑म्। आ॒स्थाना॒दित्या॒ऽस्थाना॑त्। उत्। जि॒ह॒ता॒म्। ओष॑धयः। सु॒पि॒प्प॒ला इति॑ सुऽपिप्प॒लाः ॥३८ ॥

Mantra without Swara
अपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः । तासामास्थानादुज्जिहतामोषधयः सुपिप्पलाः ॥

अपः। देवीः। उप। सृज। मधुमतीरिति मधुऽमतीः। अयक्ष्माय। प्रजाभ्य इति प्रऽजाभ्यः। तासाम्। आस्थानादित्याऽस्थानात्। उत्। जिहताम्। ओषधयः। सुपिप्पला इति सुऽपिप्पलाः॥३८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अपः) जलानि (देवीः) दिव्यानि पवित्राणि (उप) (सृज) निष्पादय (मधुमतीः) प्रशस्ता मधवो=मधुरादयो गुणा विद्यन्ते यासु ताः (अयक्ष्माय) यक्ष्मादिरोगनिवारणाय (प्रजाभ्यः) पालनीयाभ्यः (तासाम्) अपाम् (आस्थानात्) आस्थायाः (उत्) (जिहताम्) प्राप्नुवन्तु (ओषधयः) सोमादयः (सुपिप्पलाः) शोभनानि पिप्पलानि फलानि यासां ताः ॥ ३८ ॥
Essence
राज्ञा द्विविधा वैद्याः संरक्षणीयाः। एके सुगन्धादिहोमेन वायुवृष्टि-ओषधीः शुद्धाः संपादयेयुः।
[सुपिप्पला ओषधयः प्रजाभ्योऽयक्ष्मायोज्जिहताम्]
अपरे सन्तो भिषजो विद्वांसो निदानादिद्वारा सर्वान् प्राणिनोऽरोगान् सततं रक्षयेयुः ।
[ हेतुमाह--]
नैतत्कर्मणा विना समष्टिसुखं कदाचित् संपद्यते ॥ ११ । ३८ ॥
Subject
अथ जलादिपदार्थशोधनेन प्रजासु किं जायत इत्याह ॥
Meaning of Anvay
हे सद्वैद्य ! त्वं मधुमतीः प्रशस्ता मधवः=मधुरादयो गुणा विद्यन्ते यासु ताः, देवी: दिव्यानि=पवित्राणि अपः जलानि उप+सृज निष्पादय। यतस्तासाम् अपाम् आस्थानात् आस्थायाः सुपिप्पलाः शोभनानि पिप्पलानि=फलानि यासां ताः, ओषधयः सोमाऽऽदयः प्रजाभ्यः पालनीयाभ्यः अयक्ष्माय यक्ष्मादिरोगनिवारणाय उत्+जिहतां प्राप्नुवन्तु ॥ ११ । ३८ ॥
[हे सद्वैद्य! त्वं मधुमतीर्देवीरप उपसृज]
हे सद्वैद्य ! त्वं मधुवतीर्देवीरप उपसृज यतस्तासामास्थानात्सुपिप्पला ओषधयः प्रजाभ्योऽयक्ष्मायोज्जिहताम् ॥ ३८ ॥
Special
सिन्धुद्वीपः । आपः=जलानि । न्यङ्कुसारिणी बृहती। मध्यमः ॥