Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 37

82 Mantra
11/37
Devata- अग्निर्देवता Rishi- प्रस्कण्व ऋषिः Chhand- निचृदार्षी बृहती Swara- मध्यमः
Mantra with Swara
सꣳसी॑दस्व म॒हाँ२ऽअ॑सि॒ शोच॑स्व देव॒वीत॑मः। वि धू॒मम॑ग्नेऽअरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम्॥३७॥

सम्। सी॒द॒स्व॒। म॒हान्। अ॒सि॒। शोच॑स्व। दे॒व॒वीत॑म॒ इति॑ देव॒ऽवीत॑मः। वि। धू॒मम्। अ॒ग्ने॒। अ॒रु॒षम्। मि॒ये॒ध्य॒। सृ॒ज। प्र॒श॒स्तेति॑ प्रऽशस्त। द॒र्श॒तम् ॥३७ ॥

Mantra without Swara
सँ सीदस्व महाँऽअसि शोचस्व देववीतमः । वि धूममग्नेऽअरुषम्मियेध्य सृज प्रशस्त दर्शतम् ॥

सम्। सीदस्व। महान्। असि। शोचस्व। देववीतम इति देवऽवीतमः। वि। धूमम्। अग्ने। अरुषम्। मियेध्य। सृज। प्रशस्तेति प्रऽशस्त। दर्शतम्॥३७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) (सीदस्य) अध्यापने आस्व (महान्) महागुणविशिष्टः (असि) (शोचस्व) पवित्रो भव (देववीतमः) देवैर्विद्वद्भिः कमनीयतमः (विधूमम्) विगतमलम् (अग्ने) विद्वत्तम (अरुषम्) शोभनस्वरूपम् । अरुषमिति रूपना० ॥ निघं० ३ । ७ ॥ (मियेध्य) मिनोति=प्रक्षिपति दुष्टान् तत्सम्बुद्धौ। अत्र बहुलकादौणादिक एध्य प्रत्ययः किच्च (सृज) निष्पद्यस्व (प्रशस्त) श्लाघ्य (दर्शतम्) द्रष्टव्यम् ॥ ३७ ॥
Essence
यो मनुष्यो विदुषां प्रियतमः, सुरूपगुणलावण्यसंपन्नः, पवित्रोपचितो, महानाप्तो विद्वान् भवेत्, स एव शास्त्राण्यध्याययितुं शक्नोति ॥ ११ । ३७ ॥
Subject
अथेहाध्यापकः कीदृशः स्यादित्याह॥
Meaning of Anvay
हे प्रशस्त श्लाघ्य ! मियेध्य मिनोति=प्रक्षिपति दुष्टान् तत्सम्बुद्धौ ! अग्ने विद्वत्तम ! देववीतमः देवैर्विद्वद्भिः कमनीयतमः त्वं विधूमं विगतमलं दर्शतं द्रष्टव्यम् अरुषं शोभनस्वरूपं सृज निष्पद्यस्व, शोचस्व पवित्रो भव च। यतस्त्वं महान्=विद्वान् महागुणविशिष्टो असि। तस्मादध्यापने सम्+ सीदस्व अध्यापने आस्व ॥
[अग्ने ! देववीतमस्त्वं........दर्शतं सृज शोचस्व च, यतस्त्वं महान्=विद्वानसि, तस्मादध्यापने संसीदस्व]
हे प्रशस्त मियेध्याग्ने! देववीतमस्त्वं विधूमं दर्शतमरुषं सृज शोचस्व च यतस्त्वं महान् विद्वानसि तस्मादध्यापने संसीदस्व ॥ ३७ ॥
Meaning of Essence
देववीतमः=विदुषां प्रियतमः । दर्शतम्=सुरूपगुणलावण्यसम्पन्नम् । महान्=आप्तो विद्वान् ।
Special
प्रस्कण्वः । अग्निः=विद्वान् । निचृदार्षी बृहती । मध्यमः ॥