Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 35

82 Mantra
11/35
Devata- होता देवता Rishi- देवश्रवदेववातावृषी Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सीद॑ होतः॒ स्वऽउ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ॑। दे॒वा॒वीर्दे॒वान् ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः॥३५॥

सीद॑। हो॒त॒रिति॑ होतः। स्वे। ऊँ॒ इत्यूँ॑। लो॒के। चि॒कि॒त्वान्। सा॒दय॑। य॒ज्ञम्। सु॒कृ॒तस्येति॑ सुऽकृ॒तस्य॑। योनौ॑। दे॒वा॒वीरिति॑ देवऽअ॒वीः। दे॒वान्। ह॒विषा॑। य॒जा॒सि॒। अग्ने॑। बृ॒हत्। यज॑माने। वयः॑। धाः॒ ॥३५ ॥

Mantra without Swara
सीद होतः स्वऽउ लोके चिकित्वान्सादया यज्ञँ सुकृतस्य योनौ । देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥

सीद। होतरिति होतः। स्वे। ऊँ इत्यूँ। लोके। चिकित्वान्। सादय। यज्ञम्। सुकृतस्येति सुऽकृतस्य। योनौ। देवावीरिति देवऽअवीः। देवान्। हविषा। यजासि। अग्ने। बृहत्। यजमाने। वयः। धाः॥३५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सीद) अवस्थितो भव (होतः) दातर्ग्रहीतः (स्वे) सुखे (उ) (लोके) लोकनीये (चिकित्वान्) विज्ञानयुक्तः (सादय) गमय । अत्र अन्येषामपीति दीर्घः (यज्ञम्) धर्म्यं राजप्रजाव्यवहारम् (सुकृतस्य) सुष्ठुकृतस्य धार्मिकस्य (योनौ) कारणे (देवावीः) देवै रक्षितः शिक्षितश्च (देवान्) विदुषो दिव्यगुणान्वा (हविषा) दानग्रहणयोग्येन न्यायेन (यजासि) याजये: (अग्ने) विद्वन् (बृहत्) महत् (यजमाने) राजादौ जने चिरञ्जीविनम् (वयः) दीर्घं जीवनम् (धाः) धेहि ॥ ३५ ॥
Essence
विद्वद्भिरस्मिन् जगति द्वे कर्मणी सततं कार्ये । आद्यं--ब्रह्मचर्यजितेन्द्रियत्वादिशिक्षया शरीरारोग्यबलादियुक्तं चिरंजीवनम्,
[चिकित्वान् त्वं स्वे लोके सीद, सुकृतस्य योनौ यज्ञं सादय]
उत्तरं-–विद्याक्रियाकौशलग्रहणेनात्मबलं च संसाध्यम् ।
[फलमाह--]
यतः सर्वे मनुष्याः शरीरात्मबलयुक्ताः सन्तः सर्वदानन्देयुः ॥ ११ । ३५ ॥
Subject
पुनर्विदुषः किं कृत्यमस्तीत्याह ॥
Meaning of Anvay
हे अग्ने विद्वन् ! होतः दातर्ग्रहीतः! चिकित्वान् विज्ञानयुक्तः त्वं स्वे सुखे लोके लोकनीये [उ] सीद अवस्थितो भव ।
सुकृतस्य सुष्ठुकृतस्य धार्मिकस्य योनौ कारणे [बृहत्] महद् यज्ञं धर्म्यं राजप्रजाव्यवहारं सादय गमय ।
देवावीः देवै रक्षितः शिक्षितश्च सँस्त्वं हविषा दानग्रहणयोग्येन न्यायेन देवान् विदुषो दिव्यगुणान्वा यजासि याजये:, यजमाने राजादौ जने चिरञ्जीविनं वयः दीर्घं जीवनं धाः धेहि ॥ ३५ ॥
[हे अग्ने ! देवावी: सॅस्त्वं हविषा देवान् यजासि, यजमाने वयो धाः]
हे अग्ने ! होतश्चिकित्वाँस्त्वं स्वे लोके सीद। सुकृतस्य योनौ यज्ञं सादय। देवावीः सँस्त्वं हविषा देवान् यजासि यजमाने वयोधाः ॥ ३५ ॥
Meaning of Essence
वयः=शरीरारोग्यबलादियुक्तं चिरंजीवनम् ।
Special
देवश्रवोदेववातौ ॥ होता=विद्वान् ॥ निचृदार्षीत्रिष्टुप् । धैवतः ॥