Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 34

82 Mantra
11/34
Devata- अग्निर्देवता Rishi- भारद्वाज ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम्। ध॒न॒ञ्ज॒यꣳ रणे॑रणे॥३४॥

तम्। ऊ॒ इत्यूँ॑। त्वा॒। पा॒थ्यः। वृषा॑। सम्। ई॒धे॒। द॒स्यु॒हन्त॑म॒मिति॑ दस्यु॒हन्ऽत॑मम्। ध॒न॒ञ्ज॒यमिति॑ धनम्ऽज॒यम्। रणे॑रण॒ इति॒ रणे॑ऽरणे ॥३४ ॥

Mantra without Swara
तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनञ्जयँ रणेरणे ॥

तम्। ऊ इत्यूँ। त्वा। पाथ्यः। वृषा। सम्। ईधे। दस्युहन्तममिति दस्युहन्ऽतमम्। धनञ्जयमिति धनम्ऽजयम्। रणेरण इति रणेऽरणे॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तम्) पूर्वोक्तं पदार्थविद्याविदम् (उ) (त्वा) त्वाम् (पाथ्यः) पाथस्सु=जलान्नादिपदार्थेषु साधुः (वृषा) वीर्य्यवान् (सम्) (ईधे) राजधर्मशिक्षया प्रदीप्यताम् (दस्युहन्तमम्) अतिशयेन दस्यूनां हन्तारम् (धनञ्जयम्) यः शत्रुभ्यो धनं जयति तम् (रणेरणे) युद्धेयुद्धे ॥ ११ । ३४ ॥
Essence
राजादयो राजपुरुषा आप्तेभ्यो विद्वद्भ्यो विनयं, शुद्धविद्यां प्राप्य, प्रजारक्षायै चोरान् हत्वा, शत्रून् विजित्य, परमैश्वर्यमुन्नयेयुः ॥ ११ । ३४ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे वीर ! यस्त्वं पाथ्यः पाथस्सु=जलाऽन्नादिपदार्थेषु साधुः वृषा वीर्य्यवान् रणेरणे युद्धेयुद्धे विद्वान् शौर्य्यादिगुणयुक्तोऽसि, तं पूर्वोक्तं पदार्थविद्याविदं धनञ्जयं यः शत्रुभ्यो धनं जयति तम् उ दस्युहन्तमम् अतिशयेन दस्यूनां हन्तारं त्वा=त्वां वीरसेनया सम्+ईधे राजधर्मशिक्षया प्रदीप्यताम् ॥ ३४ ॥
[हे वीर! यस्त्वं..........विद्वान् शौर्यादिगुणयुक्तोऽसि, धनंजयम् दस्युहन्तमं त्वा........समीधे]
हे वीर ! यस्त्वं पाथ्यो वृषा रणे रणे विद्वान् शौर्य्यादिगुणयुक्तोऽसि तं धनञ्जयमु दस्युहन्तमं त्वा त्वां वीरसेनया समीधे ॥ ३४ ॥
Special
ऋषिः=यः साङ्गोपाङ्गान् वेदानधीत्य विद्वान् भवेत् सः ।