Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 33

82 Mantra
11/33
Devata- अग्निर्देवता Rishi- भारद्वाज ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्रऽई॑धे॒ऽअथ॑र्वणः। वृ॒त्र॒हणं॑ पुरन्द॒रम्॥३३॥

तम्। ऊ॒ इत्यूँ॑। त्वा॒। द॒ध्यङ्। ऋषिः॑। पु॒त्रः। ई॒धे॒। अथ॑र्वणः। वृ॒त्र॒हण॑म्। वृ॒त्र॒हन॒मिति॑ वृत्र॒ऽहन॑म्। पु॒र॒न्द॒रमिति॑ पुरम्ऽद॒रम् ॥३३ ॥

Mantra without Swara
तमु त्वा दध्यङ्ङृषिः पुत्र ईधेऽअथर्वणः । वृत्रहणम्पुरंदरम् ॥

तम्। ऊ इत्यूँ। त्वा। दध्यङ्। ऋषिः। पुत्रः। ईधे। अथर्वणः। वृत्रहणम्। वृत्रहनमिति वृत्रऽहनम्। पुरन्दरमिति पुरम्ऽदरम्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(तम्) (उ) वितर्के (त्वा) त्वाम् (दध्यङ्) यो दधीन्=सुखधारकानग्न्यादिपदार्थानञ्चति सः (ऋषिः) वेदार्थवित् (पुत्रः) पवित्रः शिष्यः (ईधे) प्रदीपयेत् । अत्र लोपस्त आत्मनेपदेविष्विति तकारलोपः (अथर्वणः) अहिंसकस्य विदुषः (वृत्रहणम्) यथा सूर्य्यो वृत्रं हन्ति तथा शत्रुहन्तारम् (पुरन्दरम्) यः शत्रूणां पुराणि दृणाति तम् ॥ ३३ ॥
Essence
ये याश्च साङ्गोपाङ्गान् वेदानधीत्य विद्वांसो विदुष्यश्च भवेयुस्ते ताश्च राजपुत्रादीन् राजकन्यादीँश्च विदुषो विदुषीश्च संपाद्य, ताभिर्धर्मेण राजप्रजाव्यवहारान् कारयेयुः ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे राजन् ! यथा अथर्वणः अहिंसकस्य विदुषः पुत्रः पवित्रः शिष्यः दध्यङ् यो दधीन्=सुखधारकानग्न्यादिपदार्थानञ्चति सः, ऋषिः वेदार्थविद् उ सवितर्क सकलविद्याविद्, वृत्रहणं यथा सूर्यो वृत्रं हन्ति तथा शत्रुहन्तारं, पुरन्दरं यः शत्रूणां पुराणि दृणाति तम्, ईधे प्रदीपयेत्, तथैतं [तम्] [त्वा] त्वां सर्वे विद्वांसो विद्याविनयाभ्यां वर्द्धयन्तु ॥ ३३ ॥
[अथर्वणः पुत्रो दध्यङ् ऋषिरुसकलविद्याविद् वृत्रहणं पुरन्दरमीधे]
हे राजन् ! यथाऽथवर्णः पुत्रो दध्यङ्ङ्गृषिरु सकलविद्याविद्वृत्रहणं पुरन्दरमीधे तथैतं सर्वे विद्वांसो विद्याविनयाभ्यां वर्द्धयन्तु ॥ ३३ ॥
Meaning of Essence
ऋषिः=यः साङ्गोपाङ्गान् वेदानधीत्य विद्वान् भवेत् सः ।
Special
भारद्वाजः । अग्निः=विद्वान् । निचृद्गायत्री । षड्जः ॥