Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 32

82 Mantra
11/32
Devata- अग्निर्देवता Rishi- भारद्वाज ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
पु॒री॒ष्योऽसि वि॒श्वभ॑रा॒ऽअथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने। त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत॥ मू॒र्ध्नो विश्व॑स्य वा॒घतः॑॥३२॥

पु॒री॒ष्यः᳖। अ॒सि॒। वि॒श्वभ॑रा॒ इति॑ वि॒श्वऽभ॑राः। अथ॑र्वा। त्वा॒। प्र॒थ॒मः। निः। अ॒म॒न्थ॒त्। अ॒ग्ने॒। त्वाम्। अ॒ग्ने॒। पुष्क॑रात्। अधि॑। अथ॑र्वा। निः। अ॒म॒न्थ॒त॒। मू॒र्ध्नः। विश्व॑स्य। वा॒घतः॑ ॥३२ ॥

Mantra without Swara
पुरीष्योसि विश्वभराऽअथर्वा त्वा प्रथमो निरमन्थदग्ने । त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्ना विश्वस्य वाघतः ॥

पुरीष्यः। असि। विश्वभरा इति विश्वऽभराः। अथर्वा। त्वा। प्रथमः। निः। अमन्थत्। अग्ने। त्वाम्। अग्ने। पुष्करात्। अधि। अथर्वा। निः। अमन्थत। मूर्ध्नः। विश्वस्य। वाघतः॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुरीष्यः) पुरीषेषु=पशुषु साधुः (असि) (विश्वभरा) यो विश्वं बिभर्ति सः (अथर्वा) अहिंसको विद्वान् (त्वा) त्वाम् (प्रथमः) आद्यः (निः) नितराम् (अमन्थत्) (अग्ने) संपादितक्रियाकौशल (त्वाम्) (अग्ने) विद्वन् ! (पुष्करात्) अन्तरिक्षात् (अधि) (अथर्वा) हिंसादिदोषरहितः (निः) (अमन्थत) (मूर्ध्नः) मूर्धेव वर्त्तमानस्य (विश्वस्य) समग्रस्य संसारस्य (वाघतः) मेधावी । वाघ इति मेधाविना० ॥ निघं० ३ । १५ ॥ ३२ ॥
Essence
येऽस्मिन् जगति विद्वांसो भवेयुस्ते सुविचार-पुरुषार्थाभ्यामग्न्यादिविद्यां प्रसिद्धीकृत्य सर्वेभ्यः शिक्षेरन् ॥। ११ । ३२ ॥
Subject
विद्वान्विद्युतं कथमुत्पादयेदित्याह ॥
Meaning of Anvay
हे अग्ने=विद्वन् सम्पादितक्रियाकौशल ! यो वाघतः मेधावी भवान् पुरीष्यः पुरीषेषु=पशुषु साधुः असि, तं त्वा त्वाम् अथर्वा अहिंसको विद्वान् प्रथमः आद्यः विश्वभराः यो विश्वं बिभर्त्ति सः, विश्वस्य समग्रस्य संसारस्य मूर्ध्नः मूर्धेव वर्त्तमानस्य वर्त्तमानात् पुष्करात् अन्तरिक्षाद् अधि अग्निं निः+अमन्थत् नितराम् अमन्थत्, स ऐश्वर्य्यमाप्नोति ॥ ३२ ॥
[ हे अग्ने=विद्वन्.........वाघतो भवान्........अग्निं निरमन्थत्]
हे अग्ने विद्वन् ! यो वाघतो भवान् पुरीष्योसि तं त्वाऽथर्वा प्रथमो विश्वभरा विश्वस्य मूर्धो वर्त्तमानात्पुष्करादध्यग्निं निरमन्थत्स ऐश्वर्य्यमाप्नोति ॥ ३२ ॥
Special
भारद्वाजः । अग्निः=विद्वान् ॥ आर्षी त्रिष्टुप् । धैवतः ॥